विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः निदेशस्थायिनस्तस्य कथ्यन्ते सर्वयादवाः
सप्तर्षयः कुबेरश्च यक्षो माणिचरस्तथा शालकिर् नारदश्चैव सिद्धो धन्वन्तरिस्तथा
आदिदेवस्तथा विष्णुर् एभिस्तु सह दैवतः किमर्थं संघशो भूताः स्मृताः सम्भूतयः कति
भविष्याः कति चैवान्ये प्रादुर्भावा महात्मनः ब्रह्मक्षत्रेषु शान्तेषु किमर्थमिह जायते
यदर्थमिह सम्भूतो विष्णुर्वृष्ण्यन्धकोत्तमः पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम्
त्यक्त्वा दिव्यां तनुं विष्णुर् मानुषेष्विह जायते युगे त्व् अथ परावृत्ते काले प्रशिथिले प्रभुः
देवासुरविमर्देषु जायते हरिरीश्वरः हिरण्यकशिपौ दैत्ये त्रैलोक्यं प्राक्प्रशासति
बलिनाधिष्ठिते चैव पुरा लोकत्रये क्रमात् सख्यमासीत्परमकं देवानामसुरैः सह
युगाख्यासुरसम्पूर्णं ह्य् आसीद् अत्याकुलं जगत् निदेशस्थायिनश्चापि तयोर्देवासुराः समम्
मृधो बलिविमर्दाय सम्प्रवृद्धः सुदारुणः देवानामसुराणां च घोरः क्षयकरो महान्
कर्तुं धर्मव्यवस्थानं जायते मानुषेष्विह भृगोः शापनिमित्तं तु देवासुरकृते तदा
कथं देवासुरकृते व्यापारं प्राप्तवान्स्वतः देवासुरं यथा वृत्तं तन्नः प्रब्रूहि पृच्छताम्
तेषां दायनिमित्तं ते संग्रामास्तु सुदारुणाः वराहाद्या दश द्वौ च शण्डामर्कान्तरे स्मृताः
नामतस्तु समासेन शृणुतैषां विवक्षतः प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः
तृतीयस्तु वराहश्च चतुर्थो ऽमृतमन्थनः संग्रामः पञ्चमश्चैव संजातस्तारकामयः
षष्ठो ह्य् आडीबकाख्यस्तु सप्तमस्त्रैपुरस्तथा अन्धकाख्यो ऽष्टमस्तेषां नवमो वृत्रघातकः
धात्रश्च दशमश्चैव ततो हालाहलः स्मृतः प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा
हिरण्यकशिपुर् दैत्यो नारसिंहेन पातितः वामनेन बलिर् बद्धस् त्रैलोक्याक्रमणे पुरा
हिरण्याक्षो हतो द्वंद्वे प्रतिघाते तु दैवतैः दंष्ट्रया तु वराहेण समुद्रस्तु द्विधा कृतः
प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने विरोचनस्तु प्राह्लादिर् नित्यम् इन्द्रवधोद्यतः
इन्द्रेणैव तु विक्रम्य निहतस्तारकामये अशक्नुवन्स देवानां सर्वं सोढुं सदैवतम्
निहता दानवाः सर्वे त्रैलोक्ये त्र्यम्बकेण तु असुराश्च पिशाचाश्च दानवाश्चान्धकाहवे
हता देवमनुष्ये स्वे पितृभिश्चैव सर्वशः संपृक्तो दानवैर्वृत्रो घोरो हालाहले हतः
तदा विष्णुसहायेन महेन्द्रेण निवर्तितः हतो ध्वजे महेन्द्रेण मायाच्छन्नस्तु योगवित् ध्वजलक्षणमाविश्य विप्रचित्तिः सहानुजः
दैत्यांश्च दानवांश्चैव संयतान्किल संयुतान् जयन्कोलाहले सर्वान् देवैः परिवृतो वृषा
यज्ञस्यावभृथे दृश्यौ शण्डामर्कौ तु दैवतैः एते देवासुरे वृत्ताः संग्रामा द्वादशैव तु
देवासुरक्षयकराः प्रजानां तु हिताय वै हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ
द्विसप्तति तथान्यानि नियुतान्यधिकानि च अशीतिं च सहस्राणि त्रैलोक्यैश्वर्यतां गतः
पर्यायेण नु राजाभूद् बलिर्वर्षायुतं पुनः षष्टिवर्षसहस्राणि नियुतानि च विंशतिः
बले राज्याधिकारस्तु यावत्कालं बभूव ह तावत्कालं तु प्रह्लादो निवृत्तो ह्य् असुरैः सह