अनपत्यो ऽभवच्छ्यामः शमीकस्तु वनं ययौ जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान्
कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः शृणोति मानवो नित्यं सर्वपापैः प्रमुच्यते
अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः विहारार्थं स देवेशो मानुषेष्विह जयते
देवक्यां वसुदेवस्य तपसा पुष्करेक्षणः चतुर्बाहुस्तदा जातो दिव्यरूपो ज्वलञ्श्रिया
श्रीवत्सलक्षणं देवं दृष्ट्वा दिव्यैश्च लक्षणैः उवाच वसुदेवस्तं रूपं संहर वै प्रभो
भीतो ऽहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते मम पुत्रा हतास्तेन ज्येष्ठास्ते भीमविक्रमाः
वसुदेववचः श्रुत्वा रूपं संहरते ऽच्युतः अनुज्ञाप्य ततः शौरिं नन्दगोपगृहे ऽनयत्
दत्त्वैनं नन्दगोपस्य रक्ष्यतामिति चाब्रवीत् अतस्तु सर्वकल्याणं यादवानां भविष्यति अयं तु गर्भो देवक्यां जातः कंसं हनिष्यति
क एष वसुदेवस्तु देवकी च यशस्विनी नन्दगोपश्च कस्त्वेष यशोदा च महाव्रता
यो विष्णुं जनयामास यं च तातेत्यभाषत या गर्भं जनयामास या चैनं त्व् अभ्यवर्धयत्
पुरुषः कश्यपस्त्वासीद् अदितिस्तु प्रिया स्मृता ब्रह्मणः कश्यपस्त्वंशः पृथिव्यास्त्वदितिस्तथा
अथ कामान्महाबाहुर् देवक्याः समपूरयत् ये तया काङ्क्षिता नित्यम् अजातस्य महात्मनः
सो ऽवतीर्णो महीं देवः प्रविष्टो मानुषीं तनुम् मोहयन्सर्वभूतानि योगात्मा योगमायया
नष्टे धर्मे तथा जज्ञे विष्णुर्वृष्णिकुले प्रभुः कर्तुं धर्मस्य संस्थानम् असुराणां प्रणाशनम्
रुक्मिणी सत्यभामा च सत्या नाग्नजिती तथा सुभामा च तथा शैब्या गान्धारी लक्ष्मणा तथा
मित्रविन्दा च कालिन्दी देवी जाम्बवती तथा सुशीला च तथा माद्री कौशल्या विजया तथा एवमादीनि देवीनां सहस्राणि च षोडश
रुक्मिणी जनयामास पुत्रान्रणविशारदान् चारुदेष्णं रणे शूरं प्रद्युम्नं च महाबलम्
सुचारुं भद्रचारुं च सुदेष्णं भद्रमेव च परशुं चारुगुप्तं च चारुभद्रं सुचारुकम् चारुहासं कनिष्ठं च कन्यां चारुमतीं तथा
जज्ञिरे सत्यभामायां भानुर्भ्रमरतेक्षणः रोहितो दीप्तिमांश्चैव ताम्रश् चक्रो जलंधमः
चतस्रो जज्ञिरे तेषां स्वसारस्तु यवीयसीः जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः
मित्रवान्मित्रविन्दश्च मित्रविन्दा वराङ्गना मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजा हि सा
एवमादीनि पुत्राणां सहस्राणि निबोधत शतं शतसहस्राणां पुत्राणां तस्य धीमतः
अशीतिश्च सहस्राणि वासुदेवसुतास्तथा लक्षमेकं तथा प्रोक्तं पुत्राणां च द्विजोत्तमाः
उपसङ्गस्य तु सुतौ वज्रः संक्षिप्त एव च भूरीन्द्रसेनो भूरिश्च गवेषणसुताव् उभौ
प्रद्युम्नस्य तु दायादो वैदर्भ्यां बुद्धिसत्तमः अनिरुद्धो रणे ऽरुद्धो जज्ञे ऽस्य मृगकेतनः
काश्या सुपार्श्वतनया साम्बाल्लेभे तरस्विनः सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्तिताः
तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनाम् षष्टिः शतसहस्राणि वीर्यवन्तो महाबलाः
देवांशाः सर्व एवेह ह्य् उत्पन्नास्ते महौजसः देवासुरे हता ये च त्व् असुरा ये महाबलाः
इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् तेषामुत्सादनार्थाय उत्पन्नो यादवे कुले
कुलानां शतमेकं च यादवानां महात्मनाम् सर्वमेतत्कुलं यावद् वर्तते वैष्णवे कुले