अश्विन्यां च ततः पुत्राः पृथुर् विपृथुरेव च अश्वत्थामा सुबाहुश्च सुपार्श्वकगवेषणौ
वृष्टिनेमिः सुधर्मा च तथा शर्यातिरेव च अभूमिर् वर्जभूमिश्च श्रमिष्ठः श्रवणस्तथा
इमां मिथ्याभिशस्तिं यो वेद कृष्णादपोहिताम् न स मिथ्याभिशापेन अभिशाप्यो ऽथ केनचित्
ऐक्ष्वाकी सुषुवे शूरं ख्यातमद्भुतमीढुषम् पौरुषाज्जज्ञिरे शूराद् भोजायां पुत्रका दश
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः देवमार्गस्ततो जज्ञे ततो देवश्रवाः पुनः
अनाधृष्टिः शिनिश्चैव नन्दश्चैव ससृञ्जयः श्यामः शमीकः संयूपः पञ्च चास्य वराङ्गनाः
श्रुतकीर्तिः पृथा चैव श्रुतादेवी श्रुतश्रवाः राजाधिदेवी च तथा पञ्चैता वीरमातरः
कृतस्य तु श्रुतादेवी सुग्रीवं सुषुवे सुतम् कैकेय्यां श्रुतकीर्त्यां तु जज्ञे सो ऽनुव्रतो नृपः
श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत बहुशो धर्मचारी स संबभूवारिमर्दनः
अथ सख्येन वृद्धे ऽसौ कुन्तिभोजे सुतां ददौ एवं कुन्ती समाख्याता वसुदेवस्वसा पृथा
वसुदेवेन सा दत्ता पाण्डोर्भार्या ह्य् अनिन्दिता पाण्डोरर्थेन सा जज्ञे देवपुत्रान् महारथान्
धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकादेरः इन्द्राद्धनंजयश् चैव शक्रतुल्यपराक्रमः
माद्रवत्यां तु जनिताव् अश्विभ्याभिति शुश्रुम नकुलः सहदेवश्च रूपशीलगुणान्वितौ
रोहिणी पौरवी नाम भार्या ह्य् आनकदुन्दुभेः लेभे ज्येष्ठं सुतं रामं सारणं च सुतं प्रियम्
दुर्दमं दमनं सुभ्रुं पिण्डारकमहाहनू चित्राक्ष्यौ द्वे कुमार्यौ तु रोहिण्यां जज्ञिरे तदा
देवक्यां जज्ञिरे शौरेः सुषेणः कीर्तिमानपि उदासी भद्रसेनश्च ऋषिवासस्तथैव च षष्ठो भद्रविदेहश्च कंसः सर्वानघातयत्
प्रथमा या अमावास्या वार्षिकी तु भविष्यति तस्यां जज्ञे महाबाहुः पूर्वं कृष्णः प्रजापतिः
अनुजा त्व् अभवत्कृष्णा सुभद्रा भद्रभाषिणी देवक्यां तु महातेजा जज्ञे शूरो महायशाः
सहदेवस्तु ताम्रायां जज्ञे शौरिः कुलोद्वहः उपासङ्गधरं लेभे तनयं देवरक्षिता एकां कन्यां च सुभगां कंसस्ताम् अभ्यघातयत्
विजयं रोचमानं च वर्धमानं तु देवलम् एते सर्वे महात्मानो ह्य् उपदेव्यां प्रजज्ञिरे
अवगाहो महात्मा च वृकदेव्यामजायत वृकदेव्यां स्वयं जज्ञे नन्दको नाम नामतः
सप्तमं देवकीपुत्रं मदनं सुषुवे नृप गवेषणं महाभागं संग्रामेष्वपराजितम्
श्रद्धादेव्या विहारे तु वने हि विचरन्पुरा वैश्यायामदधाच्छौरिः पुत्रं कौशिकमग्रजम्
सुतनू रथराजी च शौरेरास्तां परिग्रहौ पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ बलौ
जरा नाम निषादो ऽभूत् प्रथमः स धनुर्धरः सौभद्रश्च भवश्चैव महासत्त्वौ बभूवतुः
देवभागसुतश्चापि नाम्नासाव् उद्धवः स्मृतः पण्डितं प्रथमं प्राहुर् देवश्रवःसमुद्भवम्
ऐक्ष्वाक्यलभतापत्यम् अनाधृष्टेर्यशस्विनी निधूतसत्त्वं शत्रुघ्नं श्राद्धस्तस्मादजायत
करूषायानपत्याय कृष्णस्तुष्टः सुतं ददौ सुचन्द्रं तु महाभागं वीर्यवन्तं महाबलम्
जाम्बवत्याः सुताव् एतौ द्वौ च सत्कृतलक्षणौ चारुदेष्णश्च साम्बश्च वीर्यवन्तौ महाबलौ
तन्तिपालश्च तन्तिश्च नन्दनस्य सुताव् उभौ शमीकपुत्राश् चत्वारो विक्रान्ताः सुमहाबलाः विराजश्च धनुश्चैव श्यामश्च सृञ्जयस्तथा