तं दृष्ट्वा तु महाशब्दं स चक्रे ऋक्षराड्बली शब्दं श्रुत्वा तु गोविन्दः खड्गपाणिः प्रविश्य सः अपश्यज्जाम्बवन्तं तम् ऋक्षराजं महाबलम्
ततस्तूर्णं हृषीकेशस् तमृक्षपतिमञ्जसा जाम्बवन्तं स जग्राह क्रोधसंरक्तलोचनः
तुष्टावैनं तदा ऋक्षः कर्मभिर्वैष्णवैः प्रभुम् ततस्तुष्टस्तु भगवान् वरेणैनमरोचयत्
इच्छे चक्रप्रहारेण त्वत्तो ऽहं मरणं प्रभो कन्या चेयं मम शुभा भर्तारं त्वामवाप्नुयात् यो ऽयं मणिः प्रसेनं तु हत्वा प्राप्तो मया प्रभो
ततः स जाम्बवन्तं तं हत्वा चक्रेण वै प्रभुः कृतकर्मा महाबाहुः सकन्यं मणिमाहरत्
ददौ सत्राजितायैनं सर्वसात्वतसंसदि तेन मिथ्यापवादेन संतप्तो ऽयं जनार्दनः
ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन् अस्माकं तु मतिर्ह्यासीत् प्रसेनस्तु त्वया हतः
कैकेयस्य सुता भार्या दश सत्राजितः शुभाः तासूत्पन्नाः सुतास्तस्य शतमेकं तु विश्रुताः ख्यातिमन्तो महावीर्या भङ्गकारस्तु पूर्वजः
अथ व्रतवती तस्माद् भङ्गकारात्तु पूर्वजात् सुषुवे सुकुमारीस्तु तिस्रः कमललोचनाः
सत्यभामा वरा स्त्रीणां व्रतिनी च दृढव्रता तथा पद्मावती चैव ताश्च कृष्णाय सो ऽददात्
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् सत्यकस्तस्य पुत्रस्तु सात्यकिस्तस्य चात्मजः
सत्यवान्युयुधानस्तु शिनेर्नप्ता प्रतापवान् असङ्गो युयुधानस्य द्युम्निस्तस्यात्मजो ऽभवत्
द्युम्नेर्युगंधरः पुत्र इति शैन्याः प्रकीर्तिताः अनमित्रान्वयो ह्य् एष व्याख्यातो वृष्णिवंशजः
अनमित्रस्य संजज्ञे पृथ्व्यां वीरो युधाजितः अन्यौ तु तनयौ वीरौ वृषभः क्षत्र एव च
वृषभः काशिराजस्य सुतां भार्यामविन्दत जयन्तस्तु जयन्त्यां तु पुत्रः समभवच्छुभः
सदायज्ञो ऽतिवीरश्च श्रुतवानतिथिप्रियः अक्रूरः सुषुवे तस्मात् सदायज्ञो ऽतिदक्षिणः
रत्ना कन्या च शैब्यस्य अक्रूरस्तामवाप्तवान् पुत्रानुत्पादयामास एकादश महाबलान्
उपलम्भः सदालम्भो वृकलो वीर्य एव च सवीतरः सदापक्षः शत्रुघ्नो वारिमेजयः
धर्मभृद्धर्मवर्माणौ धृष्टमानस्तथैव च सर्वे च प्रतिहोतारो रत्नायां जज्ञिरे च ते
अक्रूराद् उग्रसेनायां सुतौ द्वौ कुलवर्धनौ देववानुपदेवश्च जज्ञाते देवसंनिभौ
अश्विन्यां च ततः पुत्राः पृथुर् विपृथुरेव च अश्वत्थामा सुबाहुश्च सुपार्श्वकगवेषणौ
वृष्टिनेमिः सुधर्मा च तथा शर्यातिरेव च अभूमिर् वर्जभूमिश्च श्रमिष्ठः श्रवणस्तथा
इमां मिथ्याभिशस्तिं यो वेद कृष्णादपोहिताम् न स मिथ्याभिशापेन अभिशाप्यो ऽथ केनचित्
ऐक्ष्वाकी सुषुवे शूरं ख्यातमद्भुतमीढुषम् पौरुषाज्जज्ञिरे शूराद् भोजायां पुत्रका दश
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः देवमार्गस्ततो जज्ञे ततो देवश्रवाः पुनः
अनाधृष्टिः शिनिश्चैव नन्दश्चैव ससृञ्जयः श्यामः शमीकः संयूपः पञ्च चास्य वराङ्गनाः
श्रुतकीर्तिः पृथा चैव श्रुतादेवी श्रुतश्रवाः राजाधिदेवी च तथा पञ्चैता वीरमातरः
कृतस्य तु श्रुतादेवी सुग्रीवं सुषुवे सुतम् कैकेय्यां श्रुतकीर्त्यां तु जज्ञे सो ऽनुव्रतो नृपः
श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत बहुशो धर्मचारी स संबभूवारिमर्दनः
अथ सख्येन वृद्धे ऽसौ कुन्तिभोजे सुतां ददौ एवं कुन्ती समाख्याता वसुदेवस्वसा पृथा