इमांश्चोदाहरन्त्यत्र श्लोकान्प्रति तमाहुकम् सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम्
रथानां मेघघोषाणां सहस्राणि दशैव तु नासत्यवादी नातेजा नायज्वा नासहस्रदः
नाशुचिर्नाप्यविद्वान् हि यो भोजेष्वभ्यजायत आहुकस्य भृतिं प्राप्ता इत्येतद्वै तदुच्यते
आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ आहुकात्काश्यदुहिता द्वौ पुत्रौ समसूयत
देवकश्चोग्रसेनश्च देवगर्भसमाव् उभौ देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः
देववानुपदेवश्च सुदेवो देवरक्षितः तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ
देवकी श्रुतदेवी च मित्रदेवी यशोधरा श्रीदेवी सत्यदेवी च सुतापी चेति सप्तमी
नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः न्यग्रोधश्च सुनामा च कङ्कः शङ्कुश्च भूयसः
अजभू राष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिदः तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा
सुतन्तू राष्ट्रपाली च कङ्का चेति वराङ्गनाः उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः
भजमानस्य पुत्रो ऽथ रथिमुख्यो विदूरथः राजाधिदेवः शूरश्च विदूरथसुतो ऽभवत्
राजाधिदेवस्य सुतौ जज्ञाते देवसंमितौ नियमव्रतप्रधानौ शोणाश्वः श्वेतवाहनः
शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः शमी च देवशर्मा च निकुन्तः शक्रशत्रुजित्
शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः प्रतिक्षेत्रः सुतो भोजो हृदीकस्तस्य चात्मजः
हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः कृतवर्माग्रजस् तेषां शतधन्वा च मध्यमः
देवार्हश्चैव नाभश्च भीषणश्च महाबलः अजातो वनजातश्च कनीयककरम्भकौ
देवार्हस्य सुतो विद्वाञ् जज्ञे कम्बलबर्हिषः असामञ्जाः सुतस्तस्य तमोजातस्य चात्मजः
अजातपुत्रा विक्रान्तास् त्रयः परमकीर्तयः सुदंष्ट्रश्च सुनाभश्च कृष्ण इत्यन्धका मताः
अन्धकानामिमं वंशं यः कीर्तयति नित्यशः आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः
गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः गान्धारी जनयामास सुमित्रं मित्रनन्दनम्
माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् अनमित्रं शिबिं चैव पञ्चमं कृतलक्षणम्
अनमित्रसुतो निघ्नो निघ्नस्यापि तु द्वौ सुतौ प्रसेनश्च महावीर्यः शक्तिसेनश्च ताव् उभौ
स्यमन्तकः प्रसेनस्य मणिरत्नमनुत्तमम् पृथिव्यां सर्वरत्नानां राजा वै सो ऽभवन्मणिः
हृदि कृत्वा तु बहुशो मणिं तमभियाचितः गोविन्दो ऽपि न तं लेभे शक्तो ऽपि न जहार सः
कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः यथाशब्दं स शुश्राव बिले सत्त्वेन पूरिते
ततः प्रविश्य स बिलं प्रसेनो ह्य् ऋक्षमैक्षत ऋक्षः प्रसेनं च तथा ऋक्षं चैव प्रसेनजित्
हत्वा ऋक्षः प्रसेनं तु ततस्तं मणिमाददात् अदृष्टस्तु हतस्तेन अन्तर्बिलगतस्तदा
प्रसेनं तु हतं ज्ञात्वा गोविन्दः परिशङ्कितः गोविन्देन हतो व्यक्तं प्रसेनो मणिकारणात्
प्रसेनस्तु गतो ऽरण्यं मणिरत्नेन भूषितः तं दृष्ट्वा स हतस्तेन गोविन्दः प्रत्युवाच ह हन्मि चैनं दुराचारं शत्रुभूतं हि वृष्णिषु
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः यदृच्छया च गोविन्दो बिलस्याभ्याशमागमत्