जनयामास धर्मात्मा म्लेच्छान्सर्वाननेकशः स सृष्ट्वा मनसा दक्षः स्त्रियः पश्चादजीजनत्
ददौ स दश धर्माय कश्यपाय त्रयोदश सप्तविंशतिं सोमाय ददौ नक्षत्रसंज्ञिताः देवासुरमनुष्यादि ताभ्यः सर्वमभूज्जगत्
देवानां दानवानां च गन्धर्वोरगरक्षसाम् उत्पत्तिं विस्तरेणैव सूत ब्रूहि यथातथम्
संकल्पाद् दर्शनात्स्पर्शात् पूर्वेषां सृष्टिरुच्यते दक्षात्प्राचेतसाद् ऊर्ध्वं सृष्टिर् मैथुनसम्भवा
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा यथा ससर्ज चैवादौ तथैव शृणुत द्विजाः
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् न वृद्धिम् अगमल्लोकस् तदा मैथुनयोगतः दक्षः पुत्रसहस्राणि पाञ्चजन्यामजीजनत्
तांस् तु दृष्ट्वा महाभागः सिसृक्षुर्विविधाः प्रजाः नारदः प्राह हर्यश्वान् दक्षपुत्रान्समागतान्
भुवः प्रमाणं सर्वत्र ज्ञात्वोर्ध्वम् अध एव च ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः
हर्यश्वेषु प्रनष्टेषु पुनर्दक्षः प्रजापतिः वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः
शबला नाम ते विप्राः समेताः सृष्टिहेतवः नारदो ऽनुगतान्प्राह पुनस्तान्पूर्ववत्स तान्
भुवः प्रमाणं सर्वत्र ज्ञात्वा भ्रातॄन् अथो पुनः आगत्य चाथ सृष्टिं च करिष्यथ विशेषतः
ते ऽपि तेनैव मार्गेण जग्मुर्भ्रातृपथा तदा ततः प्रभृति न भ्रातुः कनीयान्मार्गम् इच्छति अन्विष्यन्दुःखमाप्नोति तेन तत्परिवर्जयेत्
ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा
प्रादात्स दश धर्माय कश्यपाय त्रयोदश सप्तविंशतिं सोमाय चतस्रो ऽरिष्टनेमये
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते द्वे चैवाङ्गिरसे तद्वत् तासां नामानि विस्तरात्
शृणुध्वं देवमातॄणां प्रजाविस्तारम् आदितः मरुत्वती वसुर् यामी लम्बा भानुर् अरुन्धती
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी धर्मपत्न्यः समाख्यातास् तासां पुत्रान् निबोधत
विश्वे देवास्तु विश्वायाः साध्या साध्यानजीजनत् मरुत्वत्यां मरुत्वन्तो वसोस् तु वसवस्तथा
भानोस्तु भानवस्तद्वन् मुहूर्तायां मुहूर्तकाः लम्बायां घोषनामानो नागवीथी तु यामिजा
पृथिवीतलसम्भूतम् अरुन्धत्याम् अजायत संकल्पायास्तु संकल्पो वसुसृष्टिं निबोधत
ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतो दिशम् वसवस्ते समाख्यातास् तेषां सर्गं निबोधत
आपो ध्रुवश्च सोमश्च धरश्चैवानिलो ऽनलः प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः
आपस्य पुत्राश् चत्वारः शान्तो वै दण्ड एव च शाम्बो ऽथ मणिवक्त्रश्च यज्ञरक्षाधिकारिणः
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत द्रविणो हव्यवाहश्च धरपुत्राव् उभौ स्मृतौ
कल्याणिन्यां ततः प्राणो रमणः शिशिरो ऽपि च मनोहरा धरात्पुत्रान् अवापाथ हरेः सुता
शिवा मनोजवं पुत्रम् अविज्ञातगतिं तथा अवाप चानलात् पुत्राव् अग्निप्रायगुणौ पुनः
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत तस्य शाखो विशाखश्च नैगमेयश् च पृष्ठजाः
अपत्यं कृत्तिकानां तु कार्त्तिकेयस् ततः स्मृतः प्रत्यूषस ऋषिः पुत्रो विभुर् नाम्नाथ देवलः विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः
प्रासादभवनोद्यानप्रतिमाभूषणादिषु तडागारामकूपेषु स्मृतः सो ऽमरवर्धकिः