तस्यां विदर्भो ऽजनयच् छरान्रणविशारदान् लोमपादान्मनुः पुत्रा ज्ञातिस्तस्य तु चात्मजः
कैशिकस्य चिदिः पुत्रस् तस्माच्चैद्या नृपाः स्मृताः क्रथो विदर्भपुत्रस्तु कुन्तिस् तस्यात्मजो ऽभवत्
कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा
तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः दशार्हस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः दाशार्हाच्चैव व्योमात्तु पुत्रो जीमूत उच्यते
जीमूतपुत्रो विमलस् तस्य भीमरथः सुतः सुतो भीमरथस्यासीत् स्मृतो नवरथः किल
तस्य चासीद् दृढरथः शकुनिस्तस्य चात्मजः तस्मात्करम्भः कारम्भिर् देवरातो बभूव ह
देवक्षत्रो ऽभवद्राजा दैवरातिर्महायशाः देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः
मधुर्नाम महातेजा मधोः पुरवसस् तथा आसीत् पुरवसात् पुत्रः पुरुद्वान्पुरुषोत्तमः
जन्तुर्जज्ञे ऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः ऐक्ष्वाकी चाभवद्भार्या जन्तोस्तस्यामजायत
सात्वतः सत्त्वसंयुक्तः सात्वतां कीर्तिवर्धनः इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः प्रजावान् एति सायुज्यं राज्ञः सोमस्य धीमतः
सात्वतान् सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् भजिनं भजमानं तु दिव्यं देवावृधं नृप
अन्धकं च महाभोजं वृष्णिं च यदुनन्दनम् तेषां तु सर्गाश् चत्वारो विस्तरेणैव तच्छृणु
भजमानस्य सृञ्जय्यां बाह्यकायां च बाह्यकाः सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन्
तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून्सुतान् निमिं च कृमिलं चैव वृष्णिं परपुरंजयम् ते बाह्यकायां सृञ्जय्यां भजमानाद् विजज्ञिरे
यज्ञे देवावृधो राजा बन्धूनां मित्रवर्धनः अपुत्रस्त्वभवद्राजा चचार परमं तपः पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्
संयोज्य मन्त्रमेवाथ पर्णाशाजलमस्पृशत् तदोपस्पर्शनात्तस्य चकार प्रियमापगा
कल्याणत्वान्नरपतेस् तस्मै सा निम्नगोत्तमा चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम्
नाधिगच्छाम्यहं नारीं यस्यामेवंविधः सुतः जायेत तस्मादद्याहं भवाम्यथ सहस्रशः
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः ज्ञापयामास राजानं तामियेष महाव्रतः
अथ सा नवमे मासि सुषुवे सरितां वरा पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात्
अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम् गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः
यथैव शृणुमो दूराद् अपश्यामस् तथान्तिकात् बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः
षष्टिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः एते ऽमृतत्वं सम्प्राप्ता बभ्रोर् देवावृधान्नृप
यज्वा दानपतिर् वीरो ब्रह्मण्यश्च दृढव्रतः रूपवान्सुमहातेजाः श्रुतवीर्यधरस्तथा
अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान् कुकुरं भजमानं च शशिं कम्बलबर्हिषम्
कुकुरस्य सुतो वृष्णिर् वृष्णेस्तु तनयो धृतिः कपोतरोमा तस्याथ तैत्तिरिस्तस्य चात्मजः
तस्यासीत्तनुजः सर्पो विद्वान्पुत्रो नलः किल ख्यायते तस्य नाम्ना स नन्दनो दरदुन्दुभिः
तस्मिन्प्रवितते यज्ञे अभिजातः पुनर्वसुः अश्वमेधं च पुत्रार्थम् आजहार नरोत्तमः
तस्य मध्ये ऽतिरात्रस्य सभामध्यात्समुत्थितः अतस्तु विद्वान्कर्मज्ञो यज्वा दाता पुनर्वसुः
तस्यासीत् पुत्रमिथुनं बभूवाविजितं किल आहुकश्चाहुकी चैव ख्यातं मातेमतां वर