अश्वमेधे ददौ राजा ब्राह्मणेभ्यस्तु दक्षिणाम् यज्ञे तु रुक्मकवचः कदाचित्परवीरहा
जज्ञिरे पञ्च पुत्रास्तु महावीर्या धनुर्भृतः रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः
परिघं च हरिं चैव विदेहे ऽस्थापयत्पिता रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः
तेभ्यः प्रव्राजितो राज्याज् ज्यामघस्तु तदाश्रमे प्रशान्तश्चाश्रमस्थश्च ब्राह्मणेनावबोधितः
जगाम धनुरादाय देशमन्यं ध्वजी रथी नर्मदां नृप एकाकी केवलं वृत्तिकामतः
ऋक्षवन्तं गिरिं गत्वा भुक्तमन्यैरुपाविशत् ज्यामघस्याभवद्भार्या चैत्रा परिणता सती
अपुत्रो न्यवसद्राजा भार्यामन्यां न विन्दत तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः
भार्यामुवाच संत्रासात् स्नुषेयं ते शुचिस्मिते एवमुक्ताब्रवीदेनं कस्य चेयं स्नुषेति च
यस्ते जनिष्यते पुत्रस् तस्य भार्या भविष्यति तस्मात्सा तपसोग्रेण कन्यायाः सम्प्रसूयत
पुत्रं विदर्भं सुभगा चैत्रा परिणता सती राजपुत्र्यां च विद्वान्स स्नुषायां क्रथकैशिकौ लोमपादं तृतीयं तु पुत्रं परमधार्मिकम्
तस्यां विदर्भो ऽजनयच् छरान्रणविशारदान् लोमपादान्मनुः पुत्रा ज्ञातिस्तस्य तु चात्मजः
कैशिकस्य चिदिः पुत्रस् तस्माच्चैद्या नृपाः स्मृताः क्रथो विदर्भपुत्रस्तु कुन्तिस् तस्यात्मजो ऽभवत्
कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा
तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः दशार्हस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः दाशार्हाच्चैव व्योमात्तु पुत्रो जीमूत उच्यते
जीमूतपुत्रो विमलस् तस्य भीमरथः सुतः सुतो भीमरथस्यासीत् स्मृतो नवरथः किल
तस्य चासीद् दृढरथः शकुनिस्तस्य चात्मजः तस्मात्करम्भः कारम्भिर् देवरातो बभूव ह
देवक्षत्रो ऽभवद्राजा दैवरातिर्महायशाः देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः
मधुर्नाम महातेजा मधोः पुरवसस् तथा आसीत् पुरवसात् पुत्रः पुरुद्वान्पुरुषोत्तमः
जन्तुर्जज्ञे ऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः ऐक्ष्वाकी चाभवद्भार्या जन्तोस्तस्यामजायत
सात्वतः सत्त्वसंयुक्तः सात्वतां कीर्तिवर्धनः इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः प्रजावान् एति सायुज्यं राज्ञः सोमस्य धीमतः
सात्वतान् सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् भजिनं भजमानं तु दिव्यं देवावृधं नृप
अन्धकं च महाभोजं वृष्णिं च यदुनन्दनम् तेषां तु सर्गाश् चत्वारो विस्तरेणैव तच्छृणु
भजमानस्य सृञ्जय्यां बाह्यकायां च बाह्यकाः सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन्
तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून्सुतान् निमिं च कृमिलं चैव वृष्णिं परपुरंजयम् ते बाह्यकायां सृञ्जय्यां भजमानाद् विजज्ञिरे
यज्ञे देवावृधो राजा बन्धूनां मित्रवर्धनः अपुत्रस्त्वभवद्राजा चचार परमं तपः पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्
संयोज्य मन्त्रमेवाथ पर्णाशाजलमस्पृशत् तदोपस्पर्शनात्तस्य चकार प्रियमापगा
कल्याणत्वान्नरपतेस् तस्मै सा निम्नगोत्तमा चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम्
नाधिगच्छाम्यहं नारीं यस्यामेवंविधः सुतः जायेत तस्मादद्याहं भवाम्यथ सहस्रशः
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः ज्ञापयामास राजानं तामियेष महाव्रतः
अथ सा नवमे मासि सुषुवे सरितां वरा पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात्