कुण्डिकेराश्च विक्रान्तास् तालजङ्घास् तथैव च वीतिहोत्रसुतश्चापि आनर्तो नाम वीर्यवान् दुर्जेयस्तस्य पुत्रस्तु बभूव मित्रकर्शनः
सद्भावेन महाराज प्रजा धर्मेण पालयन् कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
येन सागरपर्यन्ता धनुषा निर्जिता मही यस्तस्य कीर्तयेन्नाम कल्यमुत्थाय मानवः
न तस्य वित्तनाशः स्यान् नष्टं च लभते पुनः कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः यथावत्स्विष्टपूतात्मा स्वर्गलोके महीयते
किमर्थं तद्वनं दग्धम् आपवस्य महात्मनः कार्तवीर्येण विक्रम्य सूत प्रब्रूहि तत्त्वतः
रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम् स कथं रक्षिता भूत्वा अदहत्तत्तपोवनम्
आदित्यो द्विजरूपेण कार्तवीर्यमुपस्थितः तृप्तिमेकां प्रयच्छस्व आदित्यो ऽहं नरेश्वर
भगवन्केन तृप्तिस्ते भवत्येव दिवाकर कीदृशं भोजनं दद्मि हुत्वा तु विदधाम्यहम्
स्थावरं देहि मे सर्वम् आहारं ददतां वर तेन तृप्तो भवेयं वै सा मे तृप्तिर्हि पार्थिव
न शक्याः स्थावराः सर्वे तेजसा च बलेन च निर्दग्धुं तपतां श्रेष्ठ तेन त्वां प्रणमाम्यहम्
तुष्टस्ते ऽहं शरान्दद्मि अक्षयान्सर्वतोमुखान् ये प्रक्षिप्ता ज्वलिष्यन्ति मम तेजःसमन्विताः
आविष्टा मम तेजोभिः शोषयिष्यन्ति स्थावरान् शुष्कान् भस्मीकरिष्यन्ति तेन तृप्तिर्नराधिप
ततः शरांस्तदादित्यस् त्व् अर्जुनाय प्रयच्छत ततो ददाह सम्प्राप्तान् स्थावरान् सर्वमेव च
ग्रामांस्तथाश्रमांश्चैव घोषाणि नगराणि च तपोवनानि रम्याणि वनान्युपवनानि च
एवं प्राचीमन्वदहत् ततः सर्वां स दक्षिणाम् निर्वृक्षा निस्तृणा भूमिर् हता घोरेण तेजसा
एतस्मिन्नेव काले तु आपवो जलमास्थितः दश वर्षसहस्राणि तत्रास्ते स महानृषिः
पूर्णे व्रते महातेजा उदतिष्ठंस्तपोधनः सो ऽपश्यदाश्रमं दग्धम् अर्जुनेन महामुनिः
क्रोधाच्छशाप राजर्षिं कीर्तितं वो यथा मया क्रोष्टोः शृणुत राजर्षेर् वंशमुत्तमपौरुषम्
यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महारथः
वृजिनीवतश्च पुत्रो ऽभूत् स्वाहो नाम महाबलः स्वाहपुत्रो ऽभवद् राजन् रुषङ्गुर् वदतां वरः
स तु प्रसूतिमिच्छन् वै रुषङ्गुः सौम्यमात्मजम् चित्रश्चित्ररथश्चास्य पुत्रः कर्मभिरन्वितः
अथ चैत्ररथिवीरो जज्ञे विपुलदक्षिणः शशबिन्दुरिति ख्यातश् चक्रवर्ती बभूव ह
अत्रानुवंशश्लोको ऽयं गीतस् तस्मिन्पुराभवत् शशबिन्दोस्तु पुत्राणां शतानाम् अभवच्छतम्
धीमतां चाभिरूपाणां भूरिद्रविणतेजसाम् तेषां शतप्रधानानां पृथुसाह्वा महाबलाः
पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुंजयः पृथुकीर्तिः पृथुमना राजानः शशबिन्दवः
शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम् अन्तरस्य सुयज्ञस्य सुयज्ञस्तनयो ऽभवत्
उशना तु सुयज्ञस्य यो रक्षन्पृथिवीमिमाम् आजहाराश्वमेधानां शतमुत्तमधार्मिकः
तितिक्षुरभवत्पुत्र औशनः शत्रुतापनः मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः
आसीन्मरुत्ततनयौ वीरः कम्बलबर्हिषः पुत्रस्तु रुक्मकवचो विद्वान्कम्बलबर्हिषः
निहत्य रुक्मकवचः परान्कवचधारिणः धन्विनो विविधैर्बाणैर् अवाप्य पृथिवीमिमाम्