एष नागं मनुष्येषु माहिष्मत्यां महाद्युतिः कर्कोटकसुतं जित्वा पुर्यां तत्र न्यवेशयत्
एष वेगं समुद्रस्य प्रावृट्काले भजेत वै क्रीडन्नेव सुखोद्भिन्नः प्रतिस्रोतो महीपतिः
ललता क्रीडता तेन प्रतिस्रग्दाममालिनी ऊर्मिभ्रुकुटिसंत्रासाच् चकिताभ्येति नर्मदा
एको बाहुसहस्रेण वगाहे स महार्णवम् करोत्युद्वृत्तवेगां तु नर्मदां प्रावृडुद्धताम्
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ भवन्त्यतीव निश्चेष्टाः पातालस्था महासुराः
चूर्णीकृतमहावीचिलीनमीनमहातिमिम् मारुताविद्धफेनौघम् आवर्ताक्षिप्तदुःसहम्
करोत्यालोडयन्नेव दोःसहस्रेण सागरम् मन्दरक्षोभचकिता ह्य् अमृतोत्पादशङ्किताः
तदा निश्चलमूर्धानो भवन्ति च महोरगाः सायाह्ने कदलीखण्डा निर्वातस्तिमिता इव
एवं बद्ध्वा धनुर्ज्यायाम् उत्सिक्तं पञ्चभिः शरैः लङ्कायां मोहयित्वा तु सबलं रावणं बलात्
निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध च ततो गत्वा पुलस्त्यस्तु ह्य् अर्जुनं संप्रसादयन्
मुमोच रक्षः पौलस्त्यं पुलस्त्येनेह सान्त्वितम् तस्य बाहुसहस्रेण बभूव ज्यातलस्वनः
युगान्ताभ्रसहस्रस्य आस्फोटस्त्वशनेरिव अहो बत विधेर्वीर्यं भार्गवो ऽयं यदाछिनत्
तद्वै सहस्रं बाहूनां हेमतालवनं यथा यत्रापवस्तु संक्रुद्धो ह्य् अर्जुनं शप्तवान्प्रभुः
यस्माद्वनं प्रदग्धं वै विश्रुतं मम हैहय तस्मात्ते दुष्करं कर्म कृतमन्यो हरिष्यति
छित्त्वा बाहुसहस्रं ते प्रथमं तरसा बली तपस्वी ब्राह्मणश्च त्वां स वधिष्यति भार्गव
तस्य रामस्तदा त्व् आसीन् मृत्युः शापेन धीमतः वरश्चैव तु राजर्षेः स्वयमेव वृतः पुरा
तस्य पुत्रशतं त्व् आसीत् पञ्च तत्र महारथाः कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबलाः
शूरसेनश्च शूरश्च धृष्टः क्रोष्टुस्तथैव च जयध्वजश्च वैकर्ता अवन्तिश्च विशांपते
जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः तस्य पुत्रशतान्येव तालजङ्घा इति श्रुताः
तेषां पञ्च कुलाः ख्याता हैहयानां महात्मनाम् वीतिहोत्राश्च शार्यातो भोजाश्चावन्तयस्तथा
कुण्डिकेराश्च विक्रान्तास् तालजङ्घास् तथैव च वीतिहोत्रसुतश्चापि आनर्तो नाम वीर्यवान् दुर्जेयस्तस्य पुत्रस्तु बभूव मित्रकर्शनः
सद्भावेन महाराज प्रजा धर्मेण पालयन् कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
येन सागरपर्यन्ता धनुषा निर्जिता मही यस्तस्य कीर्तयेन्नाम कल्यमुत्थाय मानवः
न तस्य वित्तनाशः स्यान् नष्टं च लभते पुनः कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः यथावत्स्विष्टपूतात्मा स्वर्गलोके महीयते
किमर्थं तद्वनं दग्धम् आपवस्य महात्मनः कार्तवीर्येण विक्रम्य सूत प्रब्रूहि तत्त्वतः
रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम् स कथं रक्षिता भूत्वा अदहत्तत्तपोवनम्
आदित्यो द्विजरूपेण कार्तवीर्यमुपस्थितः तृप्तिमेकां प्रयच्छस्व आदित्यो ऽहं नरेश्वर
भगवन्केन तृप्तिस्ते भवत्येव दिवाकर कीदृशं भोजनं दद्मि हुत्वा तु विदधाम्यहम्
स्थावरं देहि मे सर्वम् आहारं ददतां वर तेन तृप्तो भवेयं वै सा मे तृप्तिर्हि पार्थिव
न शक्याः स्थावराः सर्वे तेजसा च बलेन च निर्दग्धुं तपतां श्रेष्ठ तेन त्वां प्रणमाम्यहम्