हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः धर्मनेत्रस्य कुन्तिस्तु संहतस्तस्य चात्मजः
संहतस्य तु दायादो महिष्मान्नाम पार्थिवः आसीन्महिष्मतः पुत्रो रुद्रश्रेण्यः प्रतापवान्
वाराणस्याम् अभूद्राजा कथितं पूर्वमेव तु रुद्रश्रेण्यस्य पुत्रो ऽभूद् दुर्दमो नाम पार्थिवः
दुर्दमस्य सुतो धीमान् कनको नाम वीर्यवान् कनकस्य तु दायादाश् चत्वारो लोकविश्रुताः
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च कृतौजाश्च चतुर्थो ऽभूत् कृतवीर्यात्ततो ऽर्जुनः
जातः करसहस्रेण सप्तद्वीपेश्वरो नृपः वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः
दत्तमाराधयामास कार्तवीर्यो ऽत्रिसम्भवम् तस्मै दत्ता वरास्तेन चत्वारः पुरुषोत्तम
पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः अधर्मं चरमाणस्य सद्भिश्चापि निवारणम्
युद्धेन पृथिवीं जित्वा धर्मेणैवानुपालनम् संग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत्
तेनेयं पृथिवी सर्वा सप्तद्वीपा सपर्वता सप्तोदधिपरिक्षिप्ता क्षात्त्रेण विधिना जिता
जज्ञे बाहुसहस्रं वै इच्छतस्तस्य धीमतः रथो ध्वजश्च संजज्ञ इत्येवमनुशुश्रुम
दश यज्ञसहस्राणि राज्ञां द्वीपेषु वै तदा निरर्गलानि वृत्तानि श्रूयन्ते तस्य धीमतः
सर्वे यज्ञा महाराज्ञस् तस्यासन् भूरिदक्षिणाः सर्वे काञ्चनयूपास्ते सर्वाः काञ्चनवेदिकाः
सर्वे देवैः समं प्राप्तैर् विमानस्थैरलंकृताः गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः
तस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा कार्तवीर्यस्य राजर्षेर् महिमानं निरीक्ष्य सः
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति क्षत्रियाः यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च
स हि सप्तसु द्वीपेषु खड्गी चक्री शरासनी रथी द्वीपान्यनुचरन् योगी पश्यति तस्करान्
पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः स सर्वरत्नसम्पूर्णश् चक्रवर्ती बभूव ह
स एव पशुपालो ऽभूत् क्षेत्रपालः स एव हि स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनो ऽभवत्
यो ऽसौ बाहुसहस्रेण ज्याघातकठिनत्वचा भाति रश्मिसहस्रेण शारदेनेव भास्करः
एष नागं मनुष्येषु माहिष्मत्यां महाद्युतिः कर्कोटकसुतं जित्वा पुर्यां तत्र न्यवेशयत्
एष वेगं समुद्रस्य प्रावृट्काले भजेत वै क्रीडन्नेव सुखोद्भिन्नः प्रतिस्रोतो महीपतिः
ललता क्रीडता तेन प्रतिस्रग्दाममालिनी ऊर्मिभ्रुकुटिसंत्रासाच् चकिताभ्येति नर्मदा
एको बाहुसहस्रेण वगाहे स महार्णवम् करोत्युद्वृत्तवेगां तु नर्मदां प्रावृडुद्धताम्
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ भवन्त्यतीव निश्चेष्टाः पातालस्था महासुराः
चूर्णीकृतमहावीचिलीनमीनमहातिमिम् मारुताविद्धफेनौघम् आवर्ताक्षिप्तदुःसहम्
करोत्यालोडयन्नेव दोःसहस्रेण सागरम् मन्दरक्षोभचकिता ह्य् अमृतोत्पादशङ्किताः
तदा निश्चलमूर्धानो भवन्ति च महोरगाः सायाह्ने कदलीखण्डा निर्वातस्तिमिता इव
एवं बद्ध्वा धनुर्ज्यायाम् उत्सिक्तं पञ्चभिः शरैः लङ्कायां मोहयित्वा तु सबलं रावणं बलात्
निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध च ततो गत्वा पुलस्त्यस्तु ह्य् अर्जुनं संप्रसादयन्