न त्वं वाचा हृदयेनापि राजन् परीप्समानो मावमंस्था नरेन्द्र तेनानन्ता दिवि लोकाः स्थिता वै विद्युद्रूपाः स्वनवन्तो महान्तः
तांस् त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते न चाहं तान्प्रतिपद्य दत्त्वा यत्र त्वं तात गन्तासि लोकान्
यथा त्वमिन्द्रप्रतिमप्रभावस् तेचाप्यनन्ता नरदेव लोकाः तथाद्य लोके न रमे ऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि वाचम्
न चेदेकैकशो राजंल् लोकान्नः प्रतिनन्दसि सर्वे प्रदाय तांल्लोकान् गन्तारो नरकं वयम्
यदर्हास् तद्वदध्वं वः सन्तः सत्यादिदर्शिनः अहं तु नाभिगृह्णामि यत्कृतं न मया पुरा
अलिप्समानस्य तु मे यदुक्तं न तत्तथास्तीह नरेन्द्रसिंह अस्य प्रदानस्य यदेव युक्तं तस्यैव चानन्तफलं भविष्यम्
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः उच्चैः सन्तः प्रकाशन्ते ज्वलन्तो ऽग्निशिखा इव
भवतां मम चैवैते रथा भान्ति हिरण्मयाः आरुह्यैतेषु गन्तव्यं भवद्भिश्च मया सह
आतिष्ठस्व रथं राजन् विक्रमस्व विहायसा वयमप्यनुयास्यामो यदा कालो भविष्यति
सर्वैरिदानीं गन्तव्यं सह स्वर्गो जितो यतः एष वो विरजाः पन्था दृश्यते देवसद्मगः
ते ऽभिरुह्य रथान्सर्वे प्रयाता नृपते नृपाः आक्रामन्तो दिवं भान्ति धर्मेणावृत्य रोदसी
अहं मन्ये पूर्वमेको ऽभिगन्ता सखा चेन्द्रः सर्वथा मे महात्मा कस्मादेवं शिबिरौशीनरो ऽयम् एको ऽत्ययात् सर्वं वेगेन वाहान्
अददाद्देवयानाय यावद्वित्तमनिन्दितः उशीनरस्य पुत्रो ऽयं तस्माच्छ्रेष्ठो हि वः शिबिः
दानं शौचं सत्यमथो ह्य् अहिंसा ह्रीः श्रीस्तितिक्षा समतानृशंस्यम् राजन्त्येतान्यथ सर्वाणि राज्ञि शिबौ स्थितान्यप्रतिमे सुबुद्ध्या एवं वृत्तं ह्रीनिषेवी बिभर्ति तस्माच्छिबिर् अभिगन्ता रथेन
अथाष्टकः पुनरेवान्वपृच्छन् मातामहं कौतुकादिन्द्रकल्पम् पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि कथं त्वमागाः कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यो ब्राह्मणः क्षत्रियो वा
ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् गुह्यं मन्त्रं मामकेभ्यो ब्रवीमि मातामहो भवतां सुप्रकाशः
सर्वाम् इमां पृथिवीं निर्जिगाय ऋद्धां महीमददां ब्राह्मणेभ्यः मेध्यानश्वान्नैकशस् तान्सुरूपांस् तदा देवाः पुण्यभाजो भवन्ति
अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलान्नैः प्रशस्ताम् गोभिः सुवर्णैश्च धनैश्च मुख्यैर् अश्वाः सनागाः शतशस्त्वर्बुदानि
सत्येन मे द्यौश्च वसुंधरा च तथैवाग्निर्ज्वलते मानुषेषु न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति
यो नः सर्वजितं सर्वं यथावृत्तं निवेदयेत् अनसूयुर् द्विजाग्न्येभ्यः स भजेन्नः सलोकताम्
एवं राजन्स महात्मा ययातिः स्वदौहित्रैस्तारितो मित्रवर्यैः त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्
एवं सर्वं विस्तरतो यथावद् आख्यातं ते चरितं नाहुषस्य वंशो यस्य प्रथितं पौरवेयो यस्मिञ्जातस्त्वं मनुजेन्द्रकल्पः
इत्येतच्छौनकाद्राजा शतानीको निशम्य तु विस्मितः परया प्रीत्या पूर्णचन्द्र इवाबभौ
पूजयामास नृपतिर् विधिवच्चाथ शौनकम् रत्नैर्गोभिः सुवर्णैश्च वासोभिर्विविधैस्तथा
प्रतिगृह्य ततः सर्वं यद्राज्ञा प्रहितं धनम् दत्त्वा च ब्राह्मणेभ्यश्च शौनको ऽन्तरधीयत
ययातेर्वंशमिच्छामः श्रोतुं विस्तरतो वद यदुप्रभृतिभिः पुत्रैर् यदा लोके प्रतिष्ठितम्
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः विस्तरेणानुपूर्व्या च गदतो मे निबोधत
यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः महारथा महेष्वासा नामतस्तान्निबोधत
सहस्रजिर् अथो ज्येष्ठः क्रोष्टुर्नीलो ऽन्तिको लघुः सहस्रजेस्तु दायादः शतजिर्नाम पार्थिवः
शतजेरपि दायादास् त्रयः परमकीर्तयः हैहयश्च हयश्चैव तथा वेणुहयश्च यः