अनग्निरनिकेतश् चाप्य् अगोत्रचरणो मुनिः कौपीनाच्छादनं यावत् तावदिच्छेच्च चीवरम्
यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम् तदास्य वसतो ग्रामे ऽरण्यं भवति पृष्ठतः
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः आतिष्ठेत मुनिर् मौनं स लोके सिद्धिमाप्नुयात्
धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम् असितं सितकर्मस्थं कस्तं नार्चितुमर्हति
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः यदा भवति निर्द्वंद्वो मुनिर्मौनं समास्थितः
अथ लोकमिमं जित्वा लोकं चापि जयेत्परम् आस्येन तु यदाहारं गोवन्मृगयते मुनिः अथास्य लोकैः सर्वो यः सो ऽमृतत्वाय कल्पते
कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् उभयोर्धावतो राजन् सूर्यचन्द्रमसोरिव
अनिकेतगृहस्थेषु कामवृत्तेषु संयतः ग्राम एव चरन्भिक्षुस् तयोः पूर्वतरं गतः
अप्राप्यं दीर्घमायुश्च यः प्राप्तो विकृतिं चरेत् तप्येत यदि तत्कृत्वा चरेत्सोग्रं तपस्ततः
यद्वै नृशंसं तदपत् ह्यमाहुर् यः सेवते धर्ममनर्थबुद्धिः असावनीशः स तथैव राजंस् तदार्जवं स समाधिस्तदार्यम्
केनाद्य त्वं तु प्रहितो ऽसि राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः कुत आगतः कतमस्यां दिशि त्वमुताहोस्वित्पार्थिवस्थानम् अस्ति
इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुम् ऊर्वीं गगनाद्विप्रकीर्णः उक्त्वाहं वः प्रपतिष्याम्य् अनन्तरं त्वरन्त्वमी ब्रह्मणो लोकपा ये
सतां सकाशे तु वृतः प्रपातस् ते सङ्गता गुणवन्तस्तु सर्वे शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र
पृच्छामि त्वां प्रपतन्तं प्रपातं यदि लोकाः पार्थिव सन्ति मे ऽत्र यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पक्षिभिश्च तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रममित्रहाऽथसि
नास्मद्विधो ऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य यथा प्रदेयं सततं द्विजेभ्यस् तदा ददे पूर्वम् अहं नरेन्द्र
नाब्राह्मणः कृपणो जातु जीवेद् यद्यपि स्याद्ब्राह्मणी वीरपत्नी सो ऽहं यदेवाकृतपूर्वं चरेयं विवित्समानः किमु तत्र साधुः
पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनो ऽहं यदि मे सन्ति लोकाः यद्यन्तरिक्षे यदि वा दिवि श्रुताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकं सप्त शतान्यहानि मधुच्युतो घृतवन्तो विशोकास् तेनान्तवन्तः प्रतिपालयन्ति
तांस्ते ददामि पतमानस्य राजन् ये मे लोकास्तव ते वै भवन्तु यद्यन्तरिक्षे यदि वा दिवि श्रितास् तानाक्रम क्षिप्रमपेतमोहः
नु तुल्यतेजाः सुकृतं हि कामये योगक्षेमं पार्थिवात्पार्थिवः सन् दैवादेशादापदं प्राप्य विद्वांश् चरेन्नृशंसं हि न जातु राजा
धर्म्यं मार्गं चिन्तयानो यशस्यं कुर्यात्तपो धर्ममवेक्षमाणः न मद्विधो धर्मबुद्धिर्हि राजा ह्य् एवं कुर्यात्कृपणं मां यथात्थ
कुर्यामपूर्वं न कृतं यदन्यैर् विवित्समानः किम् उ तत्र साधुः ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत् तम्
पृच्छाम्यहं वसुमानौषदश्विर् यद्यस्ति लोको दिवि मह्यं नरेन्द्र यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च लोकास् तावन्तो दिवि संस्थिता वै ते त्वां भवन्तं प्रतिपालयन्ति
तांस् ते ददामि पत मां प्रपातं ये मे लोकास्तव ते वै भवन्तु क्रीणीष्वैनांस् तृणकेनापि राजन् प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः
न मिथ्याहं विक्रयं वै स्मरामि मया कृतं शिशुभावे ऽपि राजन् कुर्यां न चैवाकृतपूर्वमन्यैर् विवित्समानो वसुमन्न साधु
तांस् त्वं लोकान्प्रतिपद्यस्व राजन् मया दत्तान्यदि नेष्टः क्रयस्ते नाहं तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तावका वै भवन्तु
पृच्छामि त्वां शिबिरौशीनरो ऽहं ममापि लोका यदि सन्ति तात यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये