आहूताध्यायी गुरुकर्मसु चोद्यतः पूर्वोत्थायी चरमं चोपशायी मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्मचारी
धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी
स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्न् अरण्ये नियताहारचेष्टः
अशिल्पजीवी विगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः अनोकशायी लघु लिप्समानश् चरन् देशानेकचरः स भिक्षुः
रात्र्या यया चाभिरताश्च लोका भवन्ति कामाभिजिताः सुखेन च तामेव रात्रिं प्रयतेत विद्वान् अरण्यसंस्थो भवितुं यतात्मा
दशैव पूर्वान्दश चापरांस्तु ज्ञातींस्तथात्मानमथैकविंशम् अरण्यवासी सुकृतं दधाति मुक्त्वा त्व् अरण्ये स्वशरीरधातून्
कतिस्विद् देवमुनयो मौनानि कति चाप्युत भवन्तीति तदाचक्ष्व श्रोतुम् इच्छामहे वयम्
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः ग्रामे वा वसतो ऽरण्यं स मुनिः स्याज्जनाधिप
कथंस्विद्वसतो ऽरण्ये ग्रामो भवति पृष्ठतः ग्रामे वा वसतो ऽरण्यं कथं भवति पृष्ठतः
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् तथास्य वसतो ऽरण्ये ग्रामो भवति पृष्ठतः
अनग्निरनिकेतश् चाप्य् अगोत्रचरणो मुनिः कौपीनाच्छादनं यावत् तावदिच्छेच्च चीवरम्
यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम् तदास्य वसतो ग्रामे ऽरण्यं भवति पृष्ठतः
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः आतिष्ठेत मुनिर् मौनं स लोके सिद्धिमाप्नुयात्
धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम् असितं सितकर्मस्थं कस्तं नार्चितुमर्हति
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः यदा भवति निर्द्वंद्वो मुनिर्मौनं समास्थितः
अथ लोकमिमं जित्वा लोकं चापि जयेत्परम् आस्येन तु यदाहारं गोवन्मृगयते मुनिः अथास्य लोकैः सर्वो यः सो ऽमृतत्वाय कल्पते
कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् उभयोर्धावतो राजन् सूर्यचन्द्रमसोरिव
अनिकेतगृहस्थेषु कामवृत्तेषु संयतः ग्राम एव चरन्भिक्षुस् तयोः पूर्वतरं गतः
अप्राप्यं दीर्घमायुश्च यः प्राप्तो विकृतिं चरेत् तप्येत यदि तत्कृत्वा चरेत्सोग्रं तपस्ततः
यद्वै नृशंसं तदपत् ह्यमाहुर् यः सेवते धर्ममनर्थबुद्धिः असावनीशः स तथैव राजंस् तदार्जवं स समाधिस्तदार्यम्
केनाद्य त्वं तु प्रहितो ऽसि राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः कुत आगतः कतमस्यां दिशि त्वमुताहोस्वित्पार्थिवस्थानम् अस्ति
इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुम् ऊर्वीं गगनाद्विप्रकीर्णः उक्त्वाहं वः प्रपतिष्याम्य् अनन्तरं त्वरन्त्वमी ब्रह्मणो लोकपा ये
सतां सकाशे तु वृतः प्रपातस् ते सङ्गता गुणवन्तस्तु सर्वे शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र
पृच्छामि त्वां प्रपतन्तं प्रपातं यदि लोकाः पार्थिव सन्ति मे ऽत्र यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पक्षिभिश्च तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रममित्रहाऽथसि
नास्मद्विधो ऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य यथा प्रदेयं सततं द्विजेभ्यस् तदा ददे पूर्वम् अहं नरेन्द्र
नाब्राह्मणः कृपणो जातु जीवेद् यद्यपि स्याद्ब्राह्मणी वीरपत्नी सो ऽहं यदेवाकृतपूर्वं चरेयं विवित्समानः किमु तत्र साधुः
पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनो ऽहं यदि मे सन्ति लोकाः यद्यन्तरिक्षे यदि वा दिवि श्रुताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये
सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकं सप्त शतान्यहानि मधुच्युतो घृतवन्तो विशोकास् तेनान्तवन्तः प्रतिपालयन्ति