तैराख्यातां भवतां यज्ञभूमिं समीक्ष्य चैनामहमागतो ऽस्मि हविर्गन्धैर् दर्शितां यज्ञभूमिं धूमापाङ्गं परिगृह्य प्रतीताम्
यदा वसन्नन्दने कामरूपे संवत्सराणामयुतं शतानाम् किंकारणं कार्तयुगप्रधान हित्वा तद्वै वसुधाम् अन्वपद्यः
ज्ञातिः सुहृत्स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि तथा स्वर्गे क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः खेचरा देवसंघाः
कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मे ऽत्र मनो ऽतिमात्रम् किंविशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे
इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे ते कङ्कगोमायुपलाशनार्थं क्षितौ विवृद्धिं बहुधा प्रयान्ति
तस्मादेवं वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म आख्यातं ते पार्थिव सर्वमेतद् भूयश्चेदानीं वद किं ते वदामि
यदा तु तांस् ते वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतंगाः कथं भवन्ति कथमाभवन्ति त्वत्तो भौमं नरकमहं शृणोमि
ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद् व्यक्तं पृथिव्याम् अनुसंचरन्ति इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान्
षष्टिं सहस्राणि पतन्ति व्योम्नि तथाशीतिं चैव तु वत्सराणाम् तान्वै नुदन्ते प्रपतन्तः प्रयातान् भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः
यदेतांस्ते संपततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति
असृग्रेतः पुष्परसानुयुक्तम् अन्वेति सद्यः पुरुषेण सृष्टम् तव तरया रज आपद्यते च स गर्भभूतः समुपैति तत्र
वनस्पतीन् ओषधींश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम् चतुष्पदं द्विपदं चापि सर्व एवंभूता गर्भभूता भवन्ति
अन्यद्वपुर्विदधातीह गर्भ उताहोस्वित्स्वेन कामेन याति आपद्यमानो नरयोनिमेताम् आचक्ष्व मे संशयात्पृच्छतस्त्वम्
शरीरदेहादिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम् एतत्सर्वं तात आचक्ष्व पृष्टः क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे
वायुः समुत्कर्षति गर्भयोनिम् ऋतौ रेतः पुष्परसानुयुक्तम् स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम्
स जायमानो ऽथ गृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च
घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्शं मनसा देवभावम् इत्यष्टकेहोपचितं हि विद्धि महात्मनः प्राणभृतः शरीरे
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात्
हित्वा सो ऽसून् सुप्तवन्निष्ठितत्वात् पुरोधाय सुकृतं दुष्कृतं च अन्यां योनिं पुण्यपापानुसारां हित्वा देहं भजते राजसिंह
पुण्यां योनिं पुण्यकृतो विशन्ति पापां योनिं पापकृतो व्रजन्ति कीटाः पतंगाश्च भवन्ति पापान् न मे विवक्षास्ति महानुभाव
चतुष्पदा द्विपदाः पक्षिणश्च तथाभूता गर्भभूता भवन्ति आख्यातमेतन्निखिलं हि सर्वं भूयस्तु किं पृच्छसि राजसिंह
किं स्वित्कृत्वा लभते तात संज्ञां मर्त्यः श्रेष्ठां तपसा विद्यया वा तन्मे पृष्टः शंस सर्वं यथावच् छुभांल्लोकान् येन गच्छेत्क्रमेण
तपश्च दानं च शमो दमश्च ह्रीर् आर्जवं सर्वभूतानुकम्पा स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम्
सर्वाणि चैतानि यथोदितानि तपःप्रधानान्यभिमर्षकेण नश्यन्ति मानेन तमो ऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः
अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परस्य तस्यान्तवन्तः पुरुषस्य लोका न चास्य तद्ब्रह्मफलं ददाति
चत्वारि कर्माणि भयंकराणि भयं प्रयच्छन्त्ययथाकृतानि मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः
न मान्यमानो मुदमाददीत न संतापं प्राप्नुयाच्चावमानात् सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते
इति दद्यादिति यजेद् इत्यधीयीत मे श्रुतम् इत्येतान्यभयान्याहुस् तान्य् अवर्ज्यानि नित्यशः
येनाश्रयं वेदयन्ते पुराणं मनीषिणो मानसे मानयुक्तम् तन्निःश्रेयस् तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह
चरन्गृहस्थः कथमेति देवान् कथं भिक्षुः कथम् आचार्यकर्मा वानप्रस्थः सत्पथे संनिविष्टो बहून्यस्मिन् सम्प्रति वेदयन्ति