एवं ब्रुवाणं नृपतिं ययातिम् अथाष्टकः पुनरेवान्वपृच्छत् मातामहं सर्वगुणोपपन्नं यत्र स्थितं स्वर्गलोके यथावत्
ये ये लोकाः पार्थिवेन्द्र प्रधानास् त्वया भुक्ता यं च काले यथा च तन्मे राजन्ब्रूहि सर्वं यथावत् क्षेत्रज्ञवद्भाषसे त्वं हि धर्मम्
राजाहमासं त्व् इह सार्वभौमस् ततो लोकान्महतश् चाजर्यं वै तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनान्ताम् अध्यावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर् लोकपतेर्दुरापम् तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः
देवस्य देवस्य निवेशने च विजित्य लोकान्न्यवसं यथेष्टम् सम्पूज्यमानस्त्रिदशैः समस्तैस् तुल्यप्रभावद्युतिरीश्वराणाम्
तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् सहाप्सरोभिर्विचरन्पुण्यगन्धान् पश्यन्नगान् पुष्पितांश्चारुरूपान्
तत्र स्थितं मां देवसुखेषु सक्तं काले ऽतीते महति ततो ऽतिमात्रम् दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण
एतावन्मे विदितं राजसिंह ततो भ्रष्टो ऽहं नन्दनात्क्षीणपुण्यः वाचो ऽश्रौषं चान्तरिक्षे सुराणाम् अनुक्रोशाच्छोचतां मां नरेन्द्र
अकस्माद्वै क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः तानब्रुवं पतमानस्तदाहं सतां मध्ये निपतेयं कथं नु
तैराख्यातां भवतां यज्ञभूमिं समीक्ष्य चैनामहमागतो ऽस्मि हविर्गन्धैर् दर्शितां यज्ञभूमिं धूमापाङ्गं परिगृह्य प्रतीताम्
यदा वसन्नन्दने कामरूपे संवत्सराणामयुतं शतानाम् किंकारणं कार्तयुगप्रधान हित्वा तद्वै वसुधाम् अन्वपद्यः
ज्ञातिः सुहृत्स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि तथा स्वर्गे क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः खेचरा देवसंघाः
कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मे ऽत्र मनो ऽतिमात्रम् किंविशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे
इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे ते कङ्कगोमायुपलाशनार्थं क्षितौ विवृद्धिं बहुधा प्रयान्ति
तस्मादेवं वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म आख्यातं ते पार्थिव सर्वमेतद् भूयश्चेदानीं वद किं ते वदामि
यदा तु तांस् ते वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतंगाः कथं भवन्ति कथमाभवन्ति त्वत्तो भौमं नरकमहं शृणोमि
ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद् व्यक्तं पृथिव्याम् अनुसंचरन्ति इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान्
षष्टिं सहस्राणि पतन्ति व्योम्नि तथाशीतिं चैव तु वत्सराणाम् तान्वै नुदन्ते प्रपतन्तः प्रयातान् भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः
यदेतांस्ते संपततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति
असृग्रेतः पुष्परसानुयुक्तम् अन्वेति सद्यः पुरुषेण सृष्टम् तव तरया रज आपद्यते च स गर्भभूतः समुपैति तत्र
वनस्पतीन् ओषधींश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम् चतुष्पदं द्विपदं चापि सर्व एवंभूता गर्भभूता भवन्ति
अन्यद्वपुर्विदधातीह गर्भ उताहोस्वित्स्वेन कामेन याति आपद्यमानो नरयोनिमेताम् आचक्ष्व मे संशयात्पृच्छतस्त्वम्
शरीरदेहादिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम् एतत्सर्वं तात आचक्ष्व पृष्टः क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे
वायुः समुत्कर्षति गर्भयोनिम् ऋतौ रेतः पुष्परसानुयुक्तम् स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम्
स जायमानो ऽथ गृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च
घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्शं मनसा देवभावम् इत्यष्टकेहोपचितं हि विद्धि महात्मनः प्राणभृतः शरीरे
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात्
हित्वा सो ऽसून् सुप्तवन्निष्ठितत्वात् पुरोधाय सुकृतं दुष्कृतं च अन्यां योनिं पुण्यपापानुसारां हित्वा देहं भजते राजसिंह
पुण्यां योनिं पुण्यकृतो विशन्ति पापां योनिं पापकृतो व्रजन्ति कीटाः पतंगाश्च भवन्ति पापान् न मे विवक्षास्ति महानुभाव