सतां सकाशे पतितो ऽसि राजंश् च्युतः प्रतिष्ठां यत्र लब्धासि भूयः एवं विदित्वा तु पुनर्ययाते न ते ऽवमान्याः सदृशः श्रेयसे च
ततः पपातामरराजजुष्टात् पुण्याल्लोकात्पतमानं ययातिम् सम्प्रेक्ष्य राजर्षिवरो ऽष्टकस् तम् उवाच सद्धर्मविधानगोप्ता
कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः पतस्युदीर्णाम्बुधरप्रकाशः खे खेचराणां प्रवरो यथार्कः
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् किंनुस्विद् एतत् पततीव सर्वे वितर्कयन्तः परिमोहिताः स्मः
दृष्ट्वा च त्वाधिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् प्रत्युद्गतास्त्वां वयमद्य सर्वे तस्मात्पाते तव जिज्ञासमानाः
न चापि त्वां धृष्णवः प्रष्टुम् अग्रे न च त्वमस्मान्पृच्छसि के वयं स्म तत्त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा किंनिमित्तं त्वमागाः
भयं तु ते व्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप त्वां वर्तमानं हि सतां सकाशे शक्रो न सोढुं बलहापि शक्तः
सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प ते संगताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः प्रभुः सूर्यः प्रकाशाच्च सतां चाभ्यागतः प्रभुः
अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् प्रभ्रंशितो ऽहं सुरसिद्धलोकात् परिच्युतः प्रपताम्यल्पपुण्यः
अहं हि पूर्वो वयसा भवद्भयस् तेनाभिवादं भवतां न युञ्जे यो विद्यया तपसा जन्मना वा वृद्धः स वै सम्भवति द्विजानाम्
अवादीस्त्वं वयसास्मि प्रवृद्ध इति वै राजन्न् अधिकः कथंचित् यो वै विद्वांस्तपसा सम्प्रवृद्धः स एव पूज्यो भवति द्विजानाम्
प्रतिकूलं कर्मणां पापमाहुस् तद्वर्तिनां प्रवणं पापलोकम् सन्तो ऽसतो नान्ववर्तन्त ते वै यदात्मनैषां प्रतिकूलवादी
अभूद्धनं मे विपुलं महद्वै विचेष्टमानो ऽधिगन्ता तदस्मि एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति धीरः
नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्मबुद्ध्या
सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दति नात्मशक्त्या तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित्
दुःखे न तप्येत सुखे न हृष्येत् समेन वर्तेत सदैव धीरः दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत् कदाचित्
भये न मुह्याम्यष्टकाहं कदाचित् संतापो मे मनसो नास्ति कश्चित् धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा
संस्वेदजा ह्य् अण्डजा ह्य् उद्भिदश्च सरीसृपाः कृमयो ऽप्य् अप्सु मत्स्याः तथाश्मानस्तृणकाष्ठं च सर्वं दिष्टक्षये स्वां प्रकृतिं भजन्ते
अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात् संतापमष्टकाहं भजेयम् किं कुर्यां वै किंच कृत्वा न तप्ये तस्मात्संतापं वर्जयाम्यप्रमत्तः
एवं ब्रुवाणं नृपतिं ययातिम् अथाष्टकः पुनरेवान्वपृच्छत् मातामहं सर्वगुणोपपन्नं यत्र स्थितं स्वर्गलोके यथावत्
ये ये लोकाः पार्थिवेन्द्र प्रधानास् त्वया भुक्ता यं च काले यथा च तन्मे राजन्ब्रूहि सर्वं यथावत् क्षेत्रज्ञवद्भाषसे त्वं हि धर्मम्
राजाहमासं त्व् इह सार्वभौमस् ततो लोकान्महतश् चाजर्यं वै तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनान्ताम् अध्यावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर् लोकपतेर्दुरापम् तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः
देवस्य देवस्य निवेशने च विजित्य लोकान्न्यवसं यथेष्टम् सम्पूज्यमानस्त्रिदशैः समस्तैस् तुल्यप्रभावद्युतिरीश्वराणाम्
तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् सहाप्सरोभिर्विचरन्पुण्यगन्धान् पश्यन्नगान् पुष्पितांश्चारुरूपान्
तत्र स्थितं मां देवसुखेषु सक्तं काले ऽतीते महति ततो ऽतिमात्रम् दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण
एतावन्मे विदितं राजसिंह ततो भ्रष्टो ऽहं नन्दनात्क्षीणपुण्यः वाचो ऽश्रौषं चान्तरिक्षे सुराणाम् अनुक्रोशाच्छोचतां मां नरेन्द्र
अकस्माद्वै क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः तानब्रुवं पतमानस्तदाहं सतां मध्ये निपतेयं कथं नु