पूर्णं सहस्रं वर्षाणाम् एवंवृत्तिर् अभून्नृपः अम्बुभक्षः स चाब्दांस्त्रीन् आसीन् नियतवाङ्मनाः
ततस्तु वायुभक्षो ऽभूत् संवत्सरमतन्द्रितः पञ्चाग्निमध्ये च तपस् तेपे संवत्सरं पुनः
एकपादस्थितश्चासीत् षण्मासान् अनिलाशनः पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी
स्वर्गतस्तु स राजेन्द्रो न्यवसद्देवसद्मनि पूजितस्त्रिदशैः साध्यैर् मरुद्भिर्वसुभिस्तथा
देवलोकाद् ब्रह्मलोकं संचरन्पुण्यकृद्वशी अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागतः कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः
यदा स पूरुस्तव रूपेण राजञ् जरां गृहीत्वा प्रचचार लोके तदा राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम्
प्रकृत्यनुमते पूरुं राज्ये कृत्वेदमब्रुवम् गङ्गायमुनयोर्मध्ये कृत्स्नो ऽयं विषयस्तव मध्ये पृथिव्यास्त्वं राजा भ्रातरो ऽन्ते ऽधिपास्तव
अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुर् अतितिक्षोर् विशिष्टः अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः
आक्रुश्यमानो नाक्रोशेन् मन्युमेव तितिक्षति आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परम् अभ्याददीत ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलौल्याम्
अरुन्तुदं पुरुषं तीव्रवाचं वाक्कण्टकैर् वितुदन्तं मनुष्यान् विद्याद् अलक्ष्मीकतमं जनानां मुखे निबद्धं निरृतिं वहन्तम्
सद्भिः पुरस्तादभिपूजितः स्यात् सद्भिस्तथा पृष्ठतो रक्षितः स्यात् सदा सताम् अतिवादांस्तितिक्षेत् सतां वृत्तं पालयन्साधुवृतः
वाक्सायका वदनान्निष्पतन्ति यैर् आहतः शोचति वा त्र्यहानि परस्य नो मर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु
नास्तीदृशं संवननं त्रिषु लोकेषु किंचन यथा मैत्री च लोकेषु दानं च मधुरा च वाक्
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् पूज्यान्सम्पूजयेद् दद्यान् नाभिशापं कदाचन
सर्वाणि कार्याणि समाप्य राजन् गृहान्परित्यज्य वनं गतो ऽसि तत्त्वां पृच्छामि नहुषस्य पुत्र केनापि तुल्यस्तपसा ययाते
नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव
यदावमंस्थाः सदृशः श्रेयसश्च पापीयसश् चाविदितप्रभावः तस्माल्लोका ह्य् अन्तवन्तस्तवेमे क्षीणे पुण्ये पतितो ऽस्यद्य राजन्
सुरर्षिगन्धर्वनरावमानात् क्षयं गता मे यदि शक्रलोकाः इच्छाम्यहं सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज
सतां सकाशे पतितो ऽसि राजंश् च्युतः प्रतिष्ठां यत्र लब्धासि भूयः एवं विदित्वा तु पुनर्ययाते न ते ऽवमान्याः सदृशः श्रेयसे च
ततः पपातामरराजजुष्टात् पुण्याल्लोकात्पतमानं ययातिम् सम्प्रेक्ष्य राजर्षिवरो ऽष्टकस् तम् उवाच सद्धर्मविधानगोप्ता
कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः पतस्युदीर्णाम्बुधरप्रकाशः खे खेचराणां प्रवरो यथार्कः
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् किंनुस्विद् एतत् पततीव सर्वे वितर्कयन्तः परिमोहिताः स्मः
दृष्ट्वा च त्वाधिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् प्रत्युद्गतास्त्वां वयमद्य सर्वे तस्मात्पाते तव जिज्ञासमानाः
न चापि त्वां धृष्णवः प्रष्टुम् अग्रे न च त्वमस्मान्पृच्छसि के वयं स्म तत्त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा किंनिमित्तं त्वमागाः
भयं तु ते व्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप त्वां वर्तमानं हि सतां सकाशे शक्रो न सोढुं बलहापि शक्तः
सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प ते संगताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः प्रभुः सूर्यः प्रकाशाच्च सतां चाभ्यागतः प्रभुः
अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् प्रभ्रंशितो ऽहं सुरसिद्धलोकात् परिच्युतः प्रपताम्यल्पपुण्यः