यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा सर्वं सो ऽर्हति कल्याणं कनीयानपि स प्रभुः
अर्हं पूरोरिदं राज्यं यः प्रियः प्रियकृत् तव वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम्
पौरजानपदैस् तुष्टैर् इत्युक्तो नाहुषस्तदा अभिषिच्य ततः पूरुं राज्ये स्वसुतमात्मजम्
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह
यदोस्तु यादवा जातास् तुर्वसोर्यवनाः सुताः द्रुह्योश्चैव सुता भोजा अनोस्तु म्लेच्छजातयः
पूरोस्तु पौरवो वंशो यत्र जातो ऽसि पार्थिव इदं वर्षसहस्रात्तु राज्यं कुरुकुलागतम्
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् राज्ये ऽभिषिच्य मुदितो वानप्रस्थो ऽभवन्मुनिः
उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः फलमूलाशनो दान्तो यथा स्वर्गमितो गतः
स गतः स्वर्गवासं तु न्यवसन्मुदितः सुखी कालस्य नातिमहतः पुनः शक्रेण पातितः
विवशः प्रच्युतः स्वर्गाद् अप्राप्तो मेदिनीतलम् स्थितश्चासीद् अन्तरिक्षे स तदेति श्रुतं मया
तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः राज्ञा वसुमता सार्धम् अष्टकेन च वीर्यवान् प्रतर्दनेन शिबिना समेत्य किल संसदि
कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः कथमिन्द्रेण भगवन् पातितो मेदिनीतले
सर्वमेतद् अशेषेण श्रोतुमिच्छामि तत्त्वतः कथ्यमानं त्वया विप्र देवर्षिगणसंनिधौ
देवराजसमो ह्य् आसीद् ययातिः पृथिवीपतिः वर्धनः कुरुवंशस्य विभावसुसमद्युतिः
तस्य विस्तीर्णयशसः सत्यकीर्तेर् महात्मनः श्रोतुमिच्छामि देवेश दिवि चेह च सर्वशः
हन्त ते कथयिष्यामि ययातेरुत्तमां कथाम् दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम्
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् राज्ये ऽभिषिच्य मुदितः प्रवव्राज वनं तदा
अन्तेषु स विनिक्षिप्य पुत्रान् यदुपुरोगमान् फलमूलाशनो राजा वने ऽसौ न्यवसच्चिरम्
स जितात्मा जितक्रोधस् तर्पयन् पितृदेवताः अग्नींश्च विधिवज्जुह्वन् वानप्रस्थविधानतः
अतिथीन् पूजयन्नित्यं वन्येन हविषा विभुः शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः
पूर्णं सहस्रं वर्षाणाम् एवंवृत्तिर् अभून्नृपः अम्बुभक्षः स चाब्दांस्त्रीन् आसीन् नियतवाङ्मनाः
ततस्तु वायुभक्षो ऽभूत् संवत्सरमतन्द्रितः पञ्चाग्निमध्ये च तपस् तेपे संवत्सरं पुनः
एकपादस्थितश्चासीत् षण्मासान् अनिलाशनः पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी
स्वर्गतस्तु स राजेन्द्रो न्यवसद्देवसद्मनि पूजितस्त्रिदशैः साध्यैर् मरुद्भिर्वसुभिस्तथा
देवलोकाद् ब्रह्मलोकं संचरन्पुण्यकृद्वशी अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागतः कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः
यदा स पूरुस्तव रूपेण राजञ् जरां गृहीत्वा प्रचचार लोके तदा राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम्
प्रकृत्यनुमते पूरुं राज्ये कृत्वेदमब्रुवम् गङ्गायमुनयोर्मध्ये कृत्स्नो ऽयं विषयस्तव मध्ये पृथिव्यास्त्वं राजा भ्रातरो ऽन्ते ऽधिपास्तव
अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुर् अतितिक्षोर् विशिष्टः अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः
आक्रुश्यमानो नाक्रोशेन् मन्युमेव तितिक्षति आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति