किंचित्कालं चरेयं वै विषयान्वयसा तव पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् स्वं चैव प्रतिपत्स्ये ऽहं पाप्मानं जरया सह
एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा यथात्थ त्वं महाराज तत्करिष्यामि ते वचः
प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह गृहाण यौवनं मत्तश् चर कामान् यथेप्सितान्
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव यौवनं भवते दत्त्वा चरिष्यामि यथेच्छया
पूरो प्रीतो ऽस्मि ते वत्स वरं चेमं ददामि ते सर्वकामसमृद्धार्था भविष्यति तव प्रजा
एवमुक्तः स राजर्षिः काव्यं स्मृत्वा महाव्रतम् संक्रामयामास जरां तदा पुत्रे महात्मनि
पौरवेणाथ वयसा ययातिर्नहुषात्मजः प्रीतियुक्तो नरश्रेष्ठश् चचार विषयान्प्रियान्
यथाकामं यथोत्साहं यथाकालं यथासुखम् धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि
देवान् अतर्पयद् यज्ञैः श्राद्धैरपि पितामहान् दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान्
अतिथीनन्नपानैश्च विशश्च प्रतिपालनैः आनृशंस्येन शूद्रांश्च दस्यून्निग्रहणेन च
धर्मेण च प्रजाः सर्वा यथावद् अनुरञ्जयन् ययातिः पालयामास साक्षादिन्द्र इवापरः
स राजा सिंहविक्रान्तो युवा विषयगोचरः अविरोधेन धर्मस्य चचार सुखमुत्तमम्
स सम्प्राप्य शुभान्कामांस् तृप्तः खिन्नश्च पार्थिवः कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः
परिचिन्त्य स कालज्ञः कलाकाष्ठाश्च वीर्यवान् पूर्णम् मत्वा ततः कालं पूरुं पुत्रमुवाच ह
न जातु कामः कामानाम् उपभोगेन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः नालमेकस्य तत्सर्वम् इति मत्वा शमं व्रजेत्
यथासुखं यथोत्साहं यथाकाममरिंदम सेविता विषयाः पुत्र यौवनेन मया तव
पूरो प्रीतो ऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा यौवनं प्रतिपेदे स पूरुः स्वं पुनरात्मनः
अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम् ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्
कथं शुक्रस्य दौहित्रं देवयान्याः सुतं प्रभो ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि
ज्येष्ठो यदुस्तव सुतस् तुर्वसुस्तदनन्तरम् शर्मिष्ठायाः सुतो द्रुह्युस् तथानुः पूरुरेव च
कथं ज्येष्ठमतिक्रम्य कनीयान् राज्यमर्हति एतत्संबोधयामस्त्वां स्वधर्ममनुपालय
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ज्येष्ठं प्रति यतो राज्यं न देयं मे कथंचन
मम ज्येष्ठेन यदुना नियोगो नानुपालितः प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः
मातापित्रोर्वचनकृद् धितः पथ्यश्च यः सुतः स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु
यदुनाहमवज्ञातस् तथा तुर्वसुनापि वा द्रुह्युणा चानुना चैवम् अप्यवज्ञा कृता भृशम्
पूरुणा मे कृतं वाक्यं मानितं च विशेषतः कनीयान्मम दायादो जरा येन धृता मम
मम कामः स च कृतः पूरुणा पुत्ररूपिणा शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम्
पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः भवन्तः प्रतिजानन्तु पूरू राज्ये ऽभिषिच्यताम्