या सा देहार्धसम्भूता गायत्री ब्रह्मवादिनी जननी या मनोर्देवी शतरूपा शतेन्द्रिया
रतिर्मनस्तपो बुद्धिर् महान् दिक्सम्भ्रमस् तथा ततः स शतरूपायां सप्तापत्यान्यजीजनत्
ये मरीच्यादयः पुत्रा मानसास्तस्य धीमतः तेषामयमभूल्लोकः सर्वज्ञानात्मकः पुरा
ततो ऽसृजद्वामदेवं त्रिशूलवरधारिणम् सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम्
वामदेवस्तु भगवान् असृजन्मुखतो द्विजान् राजन्यान् असृजद्बाह्वोर् विट्छूद्रान् ऊरुपादयोः
विद्युतो ऽशनिमेघांश्च रोहितेन्द्रधनूंषि च छन्दांसि च ससर्जादौ पर्जन्यं च ततः परम्
ततः साध्यगणानीशस् त्रिनेत्रानसृजत्पुनः कोटीश्च चतुरशीतिं जरामरणवर्जिताः
वामो ऽसृजन्नमर्त्यांस् तान् ब्रह्मणा विनिवारितः नैवंविधा भवेत्सृष्टिर् जरामरणवर्जिता
शुभाशुभात्मिका या तु सैव सृष्टिः प्रशस्यते एवं स्थितः स तेनादौ सृष्टेः स्थाणुरतो ऽभवत्
स्वायम्भुवो मनुर्धीमांस् तपस्तप्त्वा सुदुश्चरम् पत्नीमेवाप रूपाढ्याम् अनन्ता नाम नामतः
प्रियव्रतोत्तानपादौ मनुस्तस्याम् अजीजनत् धर्मस्य कन्या चतुरा सूनृता नाम भामिनी
उत्तानपादात्तनयान् प्राप मन्थरगामिनी अपस्यतिम् अपस्यन्तं कीर्तिमन्तं ध्रुवं तथा
उत्तानपादो ऽजनयत् सूनृतायां प्रजापतिः ध्रुवो वर्षसहस्राणि त्रीणि कृत्वा तपः पुरा
दिव्यमाप ततः स्थानम् अचलं ब्रह्मणो वरात् तमेव पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः
धन्या नाम मनोः कन्या ध्रुवाच्छिष्टम् अजीजनत् अग्निकन्या तु सुच्छाया शिष्टात्सा सुषुवे सुतान्
कृपं रिपुं जयं वृत्तं वृकं च वृकतेजसम् चक्षुषं ब्रह्मदौहित्र्यां वीरिण्यां स रिपुंजयः
वीरणस्यात्मजायां तु चक्षुर्मनुमजीजनत् मनुर् वै राजकन्यायां नड्वलायां स चाक्षुषः
जनयामास तनयान् दश शूरानकल्मषान् ऊरुः पूरुः शतद्युम्नस् तपस्वी सत्यवाग्घविः
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चापराजितः अभिमन्युस्तु दशमो नड्वलायाम् अजायत
ऊरोर् अजनयत् पुत्रान् षड् आग्नेयी तु सुप्रभान् अग्निं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम्
पितृकन्या सुनीथा तु वेनमङ्गादजीजनत् वेनमन्यायिनं विप्रा ममन्थुस् तत्कराद् अभूत् पृथुर्नाम महातेजाः स पुत्रौ द्वाव् अजीजनत्
अन्तर्धानस् तु मारीचं शिखण्डिन्यामजीजनत् हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान् प्राचीनबर्हिषं साङ्गं यमं शुक्रं बलं शुभम्
प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः हविर्धानाः प्रजास् तेन बहवः सम्प्रवर्तिताः
सवर्णायां तु सामुद्र्यां दशाधत्त सुतान्प्रभुः सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः
तत्तपोरक्षिता वृक्षा बभुर् लोके समन्ततः देवादेशाच्च तानग्निर् अदहद्रविनन्दन
सोमकन्याभवत् पत्नी मारीषा नाम विश्रुता तेभ्यस्तु दक्षमेकं सा पुत्रम् अग्र्यम् अजीजनत्
दक्षादनन्तरं वृक्षान् औषधानि च सर्वशः अजीजनत्सोमकन्या नदीं चन्द्रवतीं तथा
सोमांशस्य च तस्यापि दक्षस्याशीतिकोटयः वक्ष्ये तासां तु विस्तारं लोके यः सुप्रतिष्ठितः
द्विपदश्चाभवन् केचित् केचिद् बहुपदा नराः वलीमुखाः शङ्कुकर्णाः कर्णप्रावरणास् तथा
अश्वऋक्षमुखाः केचित् केचित् सिंहाननास्तथा श्वसूकरमुखाः केचित् केचिदुष्ट्रमुखास् तथा