नाहं मृषा वदाम्येतज् जरां प्राप्तो ऽसि भूमिप जरां त्व् एतां त्वमन्यस्मिन् संक्रामय यदीच्छसि
राज्यभाक् स भवेद्ब्रह्मन् पुण्यभाक्कीर्तिभाक्तथा यो दद्यान्मे वयः पुत्रस् तद्भवाननुमन्यताम्
संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज मामनुध्याय तत्त्वेन न च पापमवाप्स्यसि
वयो दास्यति ते पुत्रो यः स राजा भविष्यति आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस् तथैव च
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्द्विजः
जरा वली च मां तात पलितानि च पर्यगुः काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह यौवनेन त्वदीयेन चरेयं विषयानहम्
पूर्णे वर्षसहस्रे तु त्वदीयं यौवनं त्व् अहम् दत्त्वा सम्प्रतिपत्स्यामि पाप्मानं जरया सह
सितश्मश्रुधरो दीनो जरसा शिथिलीकृतः वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः
अशक्तः कार्यकरणे परिभूतः स यौवने सहोपजीविभिश्चैव तज्जरां नाभिकामये
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप जरां ग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि पापान्मातुलसम्बन्धाद् दुष्प्रजा ते भविष्यति
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह यौवनेन चरेयं वै विषयांस्तव पुत्रक
पूर्णे वर्षसहस्रे नु पुनर्दास्यामि यौवनम् तथैव प्रतिपत्स्यामि पाप्मानं जरया सह
न कामये जरां तात कामभोगप्रणाशिनीम् बलरूपान्तकरणीं बुद्धिमानविनाशिनीम्
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति
संकीर्णाश्चोरधर्मेषु प्रतिलोमचरेषु च पिशिताशिषु लोकेषु नूनं राजा भविष्यसि
गुरुदारप्रसक्तेषु तिर्यग्योनिरतेषु च पशुधर्मिषु म्लेच्छेषु पापेषु प्रभविष्यसि
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः शर्मिष्ठायाः सुतं ज्येष्ठं द्रुह्युं वचनमब्रवीत्
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् जरां वर्षसहस्रं मे यौवनं स्वं प्रयच्छताम्
पूर्णे वर्षसहस्रे तु ते प्रदास्यामि यौवनम् स्वं चादास्यामि भूयो ऽहं पाप्मानं जरया सह
न राज्यं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् न रागश्चास्य भवति तज्जरां ते न कामये
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि तद्द्रुह्यो वै प्रियः कामो न ते सम्पत्स्यते क्वचित्
नौर् उपप्लवसंचारो यत्र नित्यं भविष्यति अराज्यभोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह एकं वर्षसहस्रं तु चरेयं यौवनेन ते
जीर्णः शिशुरिवादत्ते काले ऽन्नमशुचिर्यथा न जुहोति च काले ऽग्निं तां जरां नाभिकामये
यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि जरादोषस्त्वयोक्तो यस् तस्मात्त्वं प्रतिपद्यसे
प्रजाश्च यौवनं प्राप्ता विनश्यन्ति ह्य् अनो तव अग्निप्रस्कन्दनगतस् त्वं चाप्येवं भविष्यसि
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह त्वं मे प्रियतरः पुत्रस् त्वं वरीयान् भविष्यसि
जरा वली च मां तात पलितानि च पर्यगुः काव्यस्योशनसः शापान् न च तृप्तो ऽस्मि यौवने