अन्योन्यमेवम् उक्त्वा च सम्प्रहस्य च ते मिथः जगाम भार्गवी वेश्म तथ्यमित्यभिजानती
ययातिर्देवयान्यां तु पुत्राव् अजनयन्नृपः यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी द्रुह्यं चानुं च पूरुं च त्रीन्कुमारानजीजनत्
ततः काले च कस्मिंश्चिद् देवयानी शुचिस्मिता ययातिसहिता राजञ् जगाम हरितं वनम्
ददर्श च तदा तत्र कुमारान्देवरूपिणः क्रीडमानान् तु विस्रब्धान् विस्मिता चेदमब्रवीत्
कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः वर्चसा रूपतश्चैव दृश्यन्ते सदृशास्तव
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत किं नामधेयगोत्रे वः पुत्रका ब्राह्मणः पिता
विब्रूत मे यथातथ्यं श्रोतुकामास्म्यतो ह्य् अहम् ते ऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्
शर्मिष्ठां मातरं चैव तस्या ऊचुः कुमारकाः इत्युक्त्वा सहितास्तेन राजानम् उपचक्रमुः
नाभ्यनन्दत तान्राजा देवयान्यास् तदान्तिके रुदन्तस्ते ऽथ शर्मिष्ठाम् अभ्ययुर् बालकास्तदा
दृष्ट्वा तेषां तु बालानां प्रणयं पार्थिवं प्रति बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत्
मदधीना सती कस्माद् अकार्षीर्विप्रियं मम तमेवासुरधर्मं त्वम् आस्थिता न बिभेषि किम्
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते
यदा त्वया वृतो राजा वृत एव तदा मया सखीभर्ता हि धर्मेण भर्ता भवति शोभने
पूज्यासि मम मान्या च श्रेष्ठा ज्येष्ठा च ब्राह्मणी त्वत्तो हि मे पूज्यतरो राजर्षिः किं न वेत्सि तत्
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीद् इदम् राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम्
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः न्यवर्तत न सा चैव क्रोधसंरक्तलोचना
अविब्रुवन्ती किंचिच्च राजानं साश्रुलोचना अचिरादेव सम्प्राप्ता काव्यस्योशनसो ऽन्तिकम्
सा तु दृष्ट्वैव पितरम् अभिवाद्याग्रतः स्थिता अनन्तरं ययातिस्तु पूजयामास भार्गवम्
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् शर्मिष्ठा यातिवृत्तास्ति दुहिता वृषपर्वणः
त्रयो ऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते
धर्मज्ञस्त्वं महाराज यो ऽधर्मम् अकृथाः प्रियम् तस्माज्जरा त्वाम् अचिराद् धर्षयिष्यति दुर्जया
ऋतुं यो याच्यमानाया न ददाति पुमान्वृतः भ्रूणहेत्युच्यते ब्रह्मन् स चेह ब्रह्मवादिभिः
ऋतुकामां स्त्रियं यस्तु गम्यां रहसि याचितः नोपैति यो हि धर्मेण ब्रह्महेत्युच्यते बुधैः
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह अधर्मभयसंविग्नः शर्मिष्ठाम् उपजग्मिवान्
न त्व् अहं प्रत्यवेक्ष्यस्ते मदधीनो ऽसि पार्थिव मिथ्याचरणधर्मेषु चौर्यं भवति नाहुष
क्रोधेनोशनसा शप्तो ययातिर्नाहुषस्तदा पूर्वं वयः परित्यज्य जरां सद्यो ऽन्वपद्यत
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह प्रसादं कुरु मे ब्रह्मञ् जरेयं मा विशेत माम्