स समागम्य शर्मिष्ठां यथाकाममवाप्य च अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम्
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा वार्षपर्वणी लेभे गर्भं प्रथमतस् तस्मान्नृपतिसत्तमात्
प्रजज्ञे च ततः काले राज्ञी राजीवलोचना कुमारं देवगर्भाभम् आदित्यसमतेजसम्
श्रुत्वा कुमारं जातं सा देवयानी शुचिस्मिता चिन्तयाविष्टदुःखार्ता शर्मिष्ठां प्रति भारत
ततो ऽभिगम्य शर्मिष्ठां देवयान्यब्रवीदिदम् किमर्थं वृजिनं सुभ्रूः कृतं ते कामलुब्धया
ऋषिर् अभ्यागतः कश्चिद् धर्मात्मा वेदपारगः स मया तु वरः कामं याचितो धर्मसंहतम्
नाहमन्यायतः कामम् आचरामि शुचिस्मिते तस्माद् ऋषेर् ममापत्यम् इति सत्यं ब्रवीमि ते
पद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात्
शोभनं भीरु सत्यं चेत् कथं स ज्ञायते द्विजः गोत्रनामाभिजनतः श्रोतुमिच्छामि तं द्विजम्
ओजसा तेजसा चैव दीप्यमानं रविं यथा तं दृष्ट्वा मम संप्रष्टुं शक्तिर् नासीच्छुचिस्मिते
अन्योन्यमेवम् उक्त्वा च सम्प्रहस्य च ते मिथः जगाम भार्गवी वेश्म तथ्यमित्यभिजानती
ययातिर्देवयान्यां तु पुत्राव् अजनयन्नृपः यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी द्रुह्यं चानुं च पूरुं च त्रीन्कुमारानजीजनत्
ततः काले च कस्मिंश्चिद् देवयानी शुचिस्मिता ययातिसहिता राजञ् जगाम हरितं वनम्
ददर्श च तदा तत्र कुमारान्देवरूपिणः क्रीडमानान् तु विस्रब्धान् विस्मिता चेदमब्रवीत्
कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः वर्चसा रूपतश्चैव दृश्यन्ते सदृशास्तव
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत किं नामधेयगोत्रे वः पुत्रका ब्राह्मणः पिता
विब्रूत मे यथातथ्यं श्रोतुकामास्म्यतो ह्य् अहम् ते ऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्
शर्मिष्ठां मातरं चैव तस्या ऊचुः कुमारकाः इत्युक्त्वा सहितास्तेन राजानम् उपचक्रमुः
नाभ्यनन्दत तान्राजा देवयान्यास् तदान्तिके रुदन्तस्ते ऽथ शर्मिष्ठाम् अभ्ययुर् बालकास्तदा
दृष्ट्वा तेषां तु बालानां प्रणयं पार्थिवं प्रति बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत्
मदधीना सती कस्माद् अकार्षीर्विप्रियं मम तमेवासुरधर्मं त्वम् आस्थिता न बिभेषि किम्
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते
यदा त्वया वृतो राजा वृत एव तदा मया सखीभर्ता हि धर्मेण भर्ता भवति शोभने
पूज्यासि मम मान्या च श्रेष्ठा ज्येष्ठा च ब्राह्मणी त्वत्तो हि मे पूज्यतरो राजर्षिः किं न वेत्सि तत्
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीद् इदम् राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम्
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः न्यवर्तत न सा चैव क्रोधसंरक्तलोचना
अविब्रुवन्ती किंचिच्च राजानं साश्रुलोचना अचिरादेव सम्प्राप्ता काव्यस्योशनसो ऽन्तिकम्
सा तु दृष्ट्वैव पितरम् अभिवाद्याग्रतः स्थिता अनन्तरं ययातिस्तु पूजयामास भार्गवम्