ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना लेभे गर्भं प्रथमतः कुमारश्च व्यजायत
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ददर्श यौवनं प्राप्ता ऋतुं सा कमलेक्षणा
चिन्तयामास धर्मज्ञा ऋतुप्राप्तौ च भामिनी ऋतुकालश्च सम्प्राप्तो न कश्चिन्मे पतिर्वृतः
किं प्राप्तं किंच कर्तव्यं कथं कृत्वा सुखं भवेत् देवयानी प्रसूतासौ वृथाहं प्राप्तयौवना
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् राज्ञा पुत्रफलं देयम् इति मे निश्चिता मतिः अपीदानीं स धर्मात्मा रहो मे दर्शनं व्रजेत्
अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विस्मितः
तमेकं रहसि दृष्ट्वा शर्मिष्ठा चारुहासिनी प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्
सोमश्चेन्द्रश्च वायुश्च यमश्च वरुणश्च वा तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा सा त्वां याचे प्रसाद्येह रन्तुमेहि नराधिप
वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् रूपं तु ते न पश्यामि सूच्यग्रमपि निन्दितम्
मामब्रवीत्तदा शुक्रो देवयानीं यदावहम् नेयम् आह्वयितव्या ते शयने वार्षपर्वणी
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन् न विवाहकाले प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुर् अपातकानि
पृष्टास्तु साक्ष्ये प्रवदन्ति चान्यथा भवन्ति मिथ्यावचना नरेन्द्र ते एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्य् अनृतं हिनस्ति
राजा प्रमाणं भूतानां स विनश्येन्मृषा वदन् अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे
समाव् एतौ मतौ राजन् पतिः सख्याश्च यः पतिः समं विवाह इत्याहुः सख्या मे ऽसि पतिर्यतः
दातव्यं याचमानस्य हीति मे व्रतमाहितम् त्वं च याचसि कामं मां ब्रूहि किं करवाणि तत्
अधर्मात्त्राहि मां राजन् धर्मं च प्रतिपादय त्वत्तो ऽपत्यवती लोके चरेयं धर्ममुत्तमम्
त्रय एवाधना राजन् भार्या दासस्तथा सुतः यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी सा चाहं च त्वया राजन् भरणीयां भजस्व माम्
एवमुक्तस्तया राजा तथ्यम् इत्यभिजज्ञिवान् पूजयामास शर्मिष्ठां धर्मं च प्रतिपादयन्
स समागम्य शर्मिष्ठां यथाकाममवाप्य च अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम्
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा वार्षपर्वणी लेभे गर्भं प्रथमतस् तस्मान्नृपतिसत्तमात्
प्रजज्ञे च ततः काले राज्ञी राजीवलोचना कुमारं देवगर्भाभम् आदित्यसमतेजसम्
श्रुत्वा कुमारं जातं सा देवयानी शुचिस्मिता चिन्तयाविष्टदुःखार्ता शर्मिष्ठां प्रति भारत
ततो ऽभिगम्य शर्मिष्ठां देवयान्यब्रवीदिदम् किमर्थं वृजिनं सुभ्रूः कृतं ते कामलुब्धया
ऋषिर् अभ्यागतः कश्चिद् धर्मात्मा वेदपारगः स मया तु वरः कामं याचितो धर्मसंहतम्
नाहमन्यायतः कामम् आचरामि शुचिस्मिते तस्माद् ऋषेर् ममापत्यम् इति सत्यं ब्रवीमि ते
पद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात्
शोभनं भीरु सत्यं चेत् कथं स ज्ञायते द्विजः गोत्रनामाभिजनतः श्रोतुमिच्छामि तं द्विजम्
ओजसा तेजसा चैव दीप्यमानं रविं यथा तं दृष्ट्वा मम संप्रष्टुं शक्तिर् नासीच्छुचिस्मिते