सर्वमेव नरव्याघ्र विधानमनुवर्तते विधिना विहितं ज्ञात्वा मा विचित्रं मनः कृथाः
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे
ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः राजाहं राजपुत्रश्च ययातिरिति विश्रुतः
केन चार्थेन नृपते ह्य् एनं देशं समागतः जिघृक्षुर्वारि यत्किंचिद् अथवा मृगलिप्सया
मृगलिप्सुरहं भद्रे पानीयार्थम् इहागतः बहुधाप्यनुयुक्तो ऽस्मि त्वम् अनुज्ञातुमर्हसि
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह त्वदधीनास्मि भद्रं ते सखे भर्ता च मे भव
विद्ध्यौशनसि भद्रं ते न त्वदर्हो ऽस्मि भामिनि अविवाह्याः स्म राजानो देवयानि पितुस्तव
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणि संश्रितम् ऋषिश्च ऋषिपुत्रश्च नाहुषाद्य भजस्व माम्
एकदेहोद्भवा वर्णाश् चत्वारो ऽपि वरानने पृथग्धर्माः पृथक्छौचास् तेषां वै ब्राह्मणो वरः
पाणिग्रहो नाहुषायं न पुंभिः सेवितः पुरा त्वं पाणिमग्रहीदग्रे वृणोमि त्वामहं ततः
कथं तु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया
क्रुद्धादाशीविषात् सर्पाज् ज्वलनात्सर्वतोमुखात् दुराधर्षतरो विप्रः पुरुषेण विजानता
कथमाशीविषात् सर्पाज् ज्वलनात् सर्वतोमुखात् दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ
दशेदाशीविषस्त्वेकं शस्त्रेणैकश्च वध्यते हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः
दुराधर्षतरो विप्रस् तस्माद्भीरु मतो मम अतो ऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः
त्वरितं देवयान्याथ प्रेषिता पितुरात्मनः सर्वं निवेदयामास धात्री तस्मै यथातथम्
श्रुत्वैव च स राजानं दर्शयामास भार्गवः दृष्ट्वैवम् आगतं विप्रं ययातिः पृथिवीपतिः
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः तं चाप्यभ्यवदत्काव्यः साम्ना परमवल्गुना
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे
वृतो ऽनया पतिर्वीर सुतया त्वं ममेष्टया गृहाणेमां मया दत्तां महिषीं नहुषात्मज
अधर्मो मां स्पृशेदेवं पापम् अस्याश्च भार्गव वर्णसंकरतो ब्रह्मन्न् इति त्वां प्रवृणोम्यहम्
अधर्मात्त्वां विमुञ्चामि वरं वरय चेप्सितम् अस्मिन्विवाहे त्वं श्लाघ्यो रहः पापं नुदामि ते
वहस्व भार्यां धर्मेण देवयानीं शुचिस्मिताम् अनया सह सम्प्रीतिम् अतुलां समवाप्नुहि
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी संपूज्या सततं राजन् न चैनां शयने ह्वय
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् जगाम स्वपुरं हृष्टः सो ऽनुज्ञातो महात्मना
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत्
देवयान्याश्चानुमते सुतां तां वृषपर्वणः अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत्
वृतां दासीसहस्रेण शर्मिष्ठाम् आसुरायणीम् वासोभिरन्नपानैश्च संविभज्य सुसंवृताम्
देवयान्या तु सहितः स नृपो नहुषात्मजः विजहार बहूनब्दान् देववन्मुदितो भृशम्