समुद्रं प्रविशध्वं वो दिशो वा व्रजतासुराः दुहितुर्नाप्रियं सोढुं शक्तो ऽहं दयिता हि मे
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् योगक्षेमकरस्ते ऽहम् इन्द्रस्येव बृहस्पतिः
यत्किंचिद् असुरेन्द्राणां विद्यते वसु भार्गव भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः
यत्किंचिद् अस्ति द्रविणं दैत्येन्द्राणां महासुर तस्येश्वरो ऽस्मि यद्येतद् देवयानी प्रसाद्यताम्
ततस्तु त्वरितः शुक्रस् तेन राज्ञा समं ययौ उवाच चैनां सुभगे प्रतिपन्नं वचस्तव
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव नाभिजानामि तत्ते ऽहं राजा वदतु मां स्वयम्
यं काममभिजानासि देवयानि शुचिस्मिते तत्ते ऽहं सम्प्रदास्यामि यद्यपि स्यात्सुदुर्लभम्
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये अनुयास्यति मां तत्र यत्र दास्यति मे पिता
उत्तिष्ठ धात्रि गच्छ त्वं शर्मिष्ठां शीघ्रमानय यं च कामयते कामं देवयानी करोतु तम्
ततो धात्री तत्र गत्वा शर्मिष्ठाम् इदमब्रवीत् उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह
त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः यं सा कामयते कामं स कार्यो ऽत्र त्वयानघे दासीत्वम् अभिजातासि देवयान्याः सुशोभने
यं च कामयते कामं करवाण्यहमद्य तम् मा गान्मन्युवशं शुक्रो देवयानी च मत्कृते
ततः कन्यासहस्रेण वृता शिबिकया तदा पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात्
अहं कन्यासहस्रेण दाशी ते परिचारिका ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता
स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः स्तूयमानस्य दुहिता कथं दासी भविष्यसि
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम अमोघं तव विज्ञानम् अस्ति विद्याबलं च ते
एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः
अथ दीर्घेण कालेन देवयानी नृपोत्तम वनं तदैव निर्याता क्रीडार्थं वरवर्णिनी
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा तमेव देशं सम्प्राप्ता यथाकामं चचार सा
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् क्रीडन्त्यो ऽभिरताः सर्वाः पिबन्त्यो मधु माधवम्
खादन्त्यो विविधान्भक्ष्यान् फलानि विविधानि च पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया
तमेव देशं सम्प्राप्तो जललिप्सुः प्रतर्षितः ददर्श देवयानीं च शर्मिष्ठां ताश्च योषितः
पिबन्त्यो ललनास्ताश्च दिव्याभरणभूषिताः उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते गोत्रे च नामनी चैव द्वयोः पृच्छाम्यतो ह्य् अहम्
आख्यास्याम्यहम् आदत्स्व वचनं मे नराधिप शुको नामासुरगुरुः सुतां जानीहि तस्य माम्
इयं च मे सखी दासी यत्राहं तत्र गामिनी दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः
कथं तु ते सखी दासी कन्येयं वरवर्णिनी असुरेन्द्रसुता सुभूः परं कौतूहलं हि मे