न ह्य् अतो दुष्करं मन्ये तात लोकेष्वपि त्रिषु यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह वृषपर्वाणम् आसीनम् इत्युवाचाविचारयन्
नाधर्मश्चरितो राजन् सद्यः फलति गौर् इव शनैरावर्त्यमानस्तु मूलान्यपि निकृन्तति
यदि नात्मनि पुत्रेषु न चेत्पश्यति नप्तृषु पापमाचरितं कर्म त्रिवर्गमतिवर्तते
फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे यदा घातयसे विप्रं कचमाङ्गिरसं तदा
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् वधादनर्हतस्तस्य वधाच्च दुहितुर्मम
वृषपर्वन्निबोध त्वं त्यक्ष्यामि त्वां सबान्धवम् स्थातुं त्वद्विषये राजन् न शक्नोमि त्वया सह
अद्यैवमभिजानामि दैत्यं मिथ्याप्रलापिनम् यतस्त्वमात्मनोदीर्णां दुहितां किमुपेक्षसे
नावद्यं न मृषावादं त्वयि जानामि भार्गव त्वयि सत्यं च धर्मश्च तत्प्रसीदतु मां भवान्
अद्यास्मानपहाय त्वम् इतो यास्यसि भार्गव समुद्रं सम्प्रवेक्ष्यामि नान्यदस्ति परायणम्
समुद्रं प्रविशध्वं वो दिशो वा व्रजतासुराः दुहितुर्नाप्रियं सोढुं शक्तो ऽहं दयिता हि मे
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् योगक्षेमकरस्ते ऽहम् इन्द्रस्येव बृहस्पतिः
यत्किंचिद् असुरेन्द्राणां विद्यते वसु भार्गव भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः
यत्किंचिद् अस्ति द्रविणं दैत्येन्द्राणां महासुर तस्येश्वरो ऽस्मि यद्येतद् देवयानी प्रसाद्यताम्
ततस्तु त्वरितः शुक्रस् तेन राज्ञा समं ययौ उवाच चैनां सुभगे प्रतिपन्नं वचस्तव
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव नाभिजानामि तत्ते ऽहं राजा वदतु मां स्वयम्
यं काममभिजानासि देवयानि शुचिस्मिते तत्ते ऽहं सम्प्रदास्यामि यद्यपि स्यात्सुदुर्लभम्
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये अनुयास्यति मां तत्र यत्र दास्यति मे पिता
उत्तिष्ठ धात्रि गच्छ त्वं शर्मिष्ठां शीघ्रमानय यं च कामयते कामं देवयानी करोतु तम्
ततो धात्री तत्र गत्वा शर्मिष्ठाम् इदमब्रवीत् उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह
त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः यं सा कामयते कामं स कार्यो ऽत्र त्वयानघे दासीत्वम् अभिजातासि देवयान्याः सुशोभने
यं च कामयते कामं करवाण्यहमद्य तम् मा गान्मन्युवशं शुक्रो देवयानी च मत्कृते
ततः कन्यासहस्रेण वृता शिबिकया तदा पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात्
अहं कन्यासहस्रेण दाशी ते परिचारिका ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता
स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः स्तूयमानस्य दुहिता कथं दासी भविष्यसि
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्
प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम अमोघं तव विज्ञानम् अस्ति विद्याबलं च ते
एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः
अथ दीर्घेण कालेन देवयानी नृपोत्तम वनं तदैव निर्याता क्रीडार्थं वरवर्णिनी