यो ऽसौ देवैर्हतान् दैत्यान् उत्थापयति विद्यया तस्य शुक्रस्य कन्याहं त्वं मां नूनं न बुध्यसे
एष मे दक्षिणो राजन् पाणिस् ताम्रनखाङ्गुलिः समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः
जानामि त्वां च संशान्तं वीर्यवन्तं यशस्विनम् तस्मान्मां पतितां कूपाद् अस्माद् उद्धर्तुमर्हसि
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः गृहीत्वा दक्षिणे पाणाव् उज्जहार ततो ऽवटात्
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ
गते तु नाहुषे तस्मिन् देवयान्यपि निन्दिता उवाच शोकसंतप्ता घूर्णिकामागतां पुनः
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः नेदानीं तु प्रवेक्ष्यामि नगरं वृषपर्वणः
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् दृष्ट्वा काव्यमुवाचेदं कम्पमाना विचेतना
आचख्यौ च महाभागा देवयानी वने हता शर्मिष्ठया महाप्राज्ञ दुहित्रा वृषपर्वणः
श्रुत्वा दुहितरं काव्यस् तदा शर्मिष्ठया हताम् त्वरया निर्ययौ दुःखान् मार्गमाणः सुतां वने
दृष्ट्वा दुहितरं काव्यो देवयानीं तपोवने बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत्
आत्मदोषैर् नियच्छन्ति सर्वे दुःखसुखे जनाः मन्ये दुश्चरितं ते ऽस्ति तस्येयं निष्कृतिः कृता
निष्कृतिर् वास्तु वा मास्तु शृणुष्वावहितो मम शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः
सत्यं किलैतत्सा प्राह दैत्यानामस्मि गायना एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् स्तुवतो दुहितासि त्वं याचतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतो ऽप्रतिगृह्णतः इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः क्रोधसंरक्तनयना दर्पपूर्णानना ततः
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः प्रसादयिष्ये शर्मिष्ठाम् इत्युक्ता हि सखी मया
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः अचिन्त्यं ब्रह्म निर्द्वंद्वम् ऐश्वरं हि बलं मम
यः परेषां नरो नित्यम् अतिवादांस्तितिक्षति देवयानि विजानीहि तेन सर्वमिदं जितम्
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा स यन्तेत्युच्यते सद्भिर् न यो रश्मिषु लम्बते
यः समुत्पतितं क्रोधम् अक्रोधने नियच्छति देवयानि विजानीहि तेन सर्वमिदं जितम्
यः समुत्पतितं कोपं क्षमयैव निरस्यति यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते
यस्तु भावयते धर्मं यो ऽतिमात्रं तितिक्षति यश्च तप्तो न तपति भृशं सो ऽर्थस्य भाजनम्
यो यजेदश्वमेधेन मासि मासि शतं समाः यस्तु कुप्येन्न सर्वस्य तयोरक्रोधनो वरः
ये कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः नैतत्प्राज्ञस्तु कुर्वीत विदुस्ते न बलाबलम्
वेदाहं तात बालापि कार्याणां तु गतागतम् क्रोधे चैवातिवादे वा कार्यस्यापि बलाबले
शिष्यस्याशिष्यवृत्तं हि न क्षन्तव्यं बुभूषुणा असत्संकीर्णवृत्तेषु वासो मम न रोचते
पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु
ये नैनमभिजानन्ति वृत्तेनाभिजनेन च तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते
तन्मे मथ्नाति हृदयम् अग्निकल्पमिवारणम् वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः