ऋषिर् यथाङ्गिरा मान्यः पितुर्मम महायशाः तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि
स समापितविद्यो मां भक्तां न त्यक्तुमर्हसि गृहाण पाणिं विधिवन् मम मन्त्रपुरस्कृतम्
पूज्यो मान्यश्च भगवान् यथा मम पिता तव तथा त्वमनवद्याङ्गि पूजनीयतमा मता
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि
गुरुपुत्रस्य पुत्रो मे न तु त्वमसि मे पितुः तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम
असुरैर्हन्यमाने तु कचे त्वयि पुनः पुनः तदाप्रभृति या प्रीतिस् तां त्वमेव स्मरस्व मे
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम्
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते प्रसीद सुभ्रूर्मह्यं त्वं गुरोर् गुरुतरा शुभे
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने सुखेनाध्युषितो भद्रे न मन्युर्विद्यते मम
आपृच्छे त्वां गमिष्यामि शिवमस्त्वथ मे पथि अविरोधेन धर्मस्य स्मर्तव्यो ऽस्मि कथान्तरे अप्रमत्तोद्यता नित्यम् आराधय गुरुं मम
दैत्यैर्हतस्त्वं यद्भर्तृबुद्ध्या त्वं रक्षितो मया यदि मां धर्मकामार्थं प्रत्याख्यास्यसि धर्मतः
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति
गुरुपुत्रीति कृत्वाहं प्रत्याख्यास्ये न दोषतः गुरुणा चाभ्यनुज्ञातः काममेव शपस्व माम्
आर्षं धर्मं ब्रुवाणो ऽहं देवयानि यथा त्वया शप्तुं नार्हो ऽस्मि कल्याणि कामतो ऽद्य च धर्मतः
तस्माद्भवत्या यः कामो न तथा सम्भविष्यति ऋषिपुत्रो न ते कश्चिज् जातु पाणिं ग्रहीष्यति
फलिष्यति न मे विद्या त्वद्वचश्चेति तत्तया अध्यापयिष्यामि च यं तस्य विद्या फलिष्यति
एवमुक्त्वा नृपश्रेष्ठ देवयानीं कचस्तदा त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः
तमागतमभिप्रेक्ष्य देवाः सेन्द्रपुरोगमाः बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः
त्वं कचास्मद्धितं कर्म कृतवान्महदद्भुतम् न ते यशः प्रणशिता भागभाक्च भविष्यसि
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः कचादवेत्य तां विद्यां कृतार्था भरतर्षभ
सर्व एव समागम्य शतक्रतुमथाब्रुवन् कालस्त्वद्विक्रमस्याद्य जहि शत्रून्पुरंदर
एवमुक्तस्तु सह तैस् त्रिदशैर् मघवांस्तदा तथेत्युक्त्वोपचक्राम सो ऽपश्यद्विपिने स्त्रियः
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे वायुर्भूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत्
ततो जलात् समुत्तीर्य ताः कन्याः सहितास्तदा वस्त्राणि जगृहुस्तानि यथासंस्थान्यनेकशः
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा व्यतिक्रममजानन्ती दुहिता वृषपर्वणः
ततस्तयोर् मिथस्तत्र विरोधः समजायत देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि समुदाचारहीनाया न ते श्रेयो भविष्यति