वने पुष्पाणि चिन्वन्तं ददृशुर् दानवाश्च तम् ततो ऽद्वितीयं तं हत्वा दग्धं कृत्वा च चूर्णवत् प्रायच्छन् ब्राह्मणायैव सुरायामसुरास्तदा
देवयान्यथ भूयो ऽपि पितरं वाक्यमब्रवीत् पुष्पाहारप्रेषणकृत् कचस्तात न दृश्यते
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति तं विना नैव जीवामि वचः सत्यं ब्रवीमि ते
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः विद्यया जीवितो ऽप्येवं हन्यते करवाणि किम्
मैनं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनु प्रशोचेत् यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्राश्च देवा वसवो ऽश्विनौ च
सुरद्विषश्चैव जगच्च सर्वम् उपस्थितं मत्तपसः प्रभावात् अशक्यो ऽयं जीवयितुं द्विजातिः संजीवितो यो वध्यते चैव भूयः
यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः ऋषेः सुपुत्रं तमथापि पौत्रं कथं न शोचे यमहं न रुद्याम्
स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचो ऽभिरूपः
स त्व् एवमुक्तो देवयान्या महर्षिः संरम्भेण व्याजहाराथ काव्यः असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान्सूदयन्ति
अब्राह्मणं कर्तुमिच्छन्ति रौद्रा एभिर् व्यर्थं प्रस्तुतो दानवैर्हि तत्कर्मणाप्यस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम्
स तेनापृष्टो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार तमब्रवीत्केन चेहोपनीतो ममोदरे तिष्ठसि ब्रूहि वत्स
भवत्प्रसादान्न जहाति मां स्मृतिः सर्वं स्मरेयं यच्च यथा च वृत्तम् न त्व् एवं स्यात्तपसः क्षयो मे तत क्लेशं घोरतरं स्मरामि
असुरैः सुरायां भवतो ऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य ब्राह्मीं मायां त्व् आसुरी त्व् अत्र माया त्वयि स्थिते कथम् एवाभिबाधते
किं ते प्रियं करवाण्यद्य वत्से विनैव मे जीवितं स्यात्कचस्य नान्यत्र कुक्षेर्मम भेदनाच्च दृश्येत् कचो मद्गतो देवयानि
द्वौ मां शोकाव् अग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता
संसिद्धरूपो ऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य
न निवर्तेत्पुनर्जीवन् कश्चिदन्यो ममोदरात् ब्राह्मणं वर्जयित्वैकं तस्माद्विद्याम् अवाप्नुहि
पुत्रो भूत्वा निष्क्रमस्वोदरान्मे भित्त्वा कुक्षिं जीवय मां च तात अवेक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः
गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः प्रालेयाद्रेः शुक्लमुद्भिद्य शृङ्गं रात्र्यागमे पौर्णमास्यामिवेन्दुः
दृष्ट्वा च तं पतितं वेदराशिम् उत्थापयामास ततः कचो ऽपि विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच
निधिं निधीनां वरदं वराणां ये नाद्रियन्ते गुरुमर्चनीयम् प्रालेयाद्रिप्रोज्ज्वलद्भालसंस्थं पापांल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः
सुरापानाद् वञ्चनात् प्रापयित्वा संज्ञानाशं चेतसश्चापि घोरम् दृष्ट्वा कचं चापि तथाभिरूपं पीतं तथा सुरया मोहितेन
समन्युरुत्थाय महानुभावस् तदोशना विप्रहितं चिकीर्षुः काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रत्यसौ जातशङ्कः
यो ब्राह्मणो ऽद्यप्रभृतीह कश्चिन् मोहात्सुरां पास्यति मन्दबुद्धिः अपेतधर्मा ब्रह्महा चैव स स्यादस्मिंल्लोके गर्हितः स्यात्परे च
मया चेमां विप्रधर्मोक्तसीमां मर्यादां वै स्थापितां सर्वलोके सन्तो विप्राः शुश्रुवांसो गुरूणां देवा दैत्याश्चोपशृण्वन्तु सर्वे
इतीदमुक्त्वा स महाप्रभावस् तपोनिधीनां निधिर् अप्रमेयः तान्दानवांश्चैव निगूढबुद्धीन् इदं समाहूय वचो ऽभ्युवाच
आचक्षे वो दानवा बालिशाः स्थ शिष्यः कचो वत्स्यति मत्समीपे संजीवनीं प्राप्य विद्यां मयायं तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः
गुरोरुष्य सकाशे च दश वर्षशतानि सः अनुज्ञातः कचो गन्तुम् इयेष त्रिदशालयम्
समापितव्रतं तं तु विसृष्टं गुरुणा तदा प्रस्थितं त्रिदशावासं देवयानीदमब्रवीत्
ऋषेर् अङ्गिरसः पौत्र वृत्तेनाभिजनेन च भ्राजसे विद्यया चैव तपसा च दमेन च