जिगीषया ततो देवा वव्रुराङ्गिरसं मुनिम् पौरोहित्ये च यज्ञार्थे काव्यं तूशनसं परे
ब्राह्मणौ ताव् उभौ नित्यम् अन्योन्यं स्पर्धिनौ भृशम् तत्र देवा निजघ्नुर्यान् दानवान् युधि संगतान्
तान्पुनर् जीवयामास काव्यो विद्याबलाश्रयात् ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान्
असुरास्तु निजघ्नुर्यान् सुरान्समरमूर्धनि न तान्संजीवयामास बृहस्पतिरुदारधीः
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् संजीवनीं ततो देवा विषादमगमन्परम्
अथ देवा भयोद्विग्नाः काव्यादुशनसस्तदा ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः
भजमानान्भजस्वास्मान् कुरु साहाय्यमुत्तमम् यासौ विद्या निवसति ब्राह्मणे ऽमिततेजसि
शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि वृषपर्वणः समीपे ऽसौ शक्यो द्रष्टुं त्वया द्विजः
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् तम् आराधयितुं शक्तो नान्यः कश्चिदृते त्वया
देवयानी च दयिता सुता तस्य महात्मनः ताम् आराधयितुं शक्तो नान्यः कश्चन विद्यते
शीलदाक्षिण्यमाधुर्यैर् आचारेण दमेन च देवयान्यां तु तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्
तदा हि प्रेषितो देवैः समीपे वृषपर्वणः तथेत्युक्त्वा तु स प्रायाद् बृहस्पतिसुतः कचः
स गत्वा त्वरितो राजन् देवैः सम्पूजितः कचः असुरेन्द्रपुरे शुक्रं प्रणम्येदमुवाच ह
ऋषेर् अङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः नाम्ना कचेति विख्यातं शिष्यं गृह्णातु मां भवान्
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरो अनुमन्यस्व मां ब्रह्मन् सहस्रपरिवत्सरान्
कच सुस्वागतं ते ऽस्तु प्रतिगृह्णामि ते वचः अर्चयिष्ये ऽहमर्च्यं त्वाम् अर्चितो ऽस्तु बृहस्पतिः
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम्
व्रतं च व्रतकालं च यथोक्तं प्रत्यगृह्णत आराधयन्नुपाध्यायं देवयानीं च भारत
नित्यमाराधयिष्यंस्तां युवा यौवनगोचराम् गायन्नृत्यन्वादयंश्च देवयानीमतोषयत्
संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् पुष्पैः फलैः प्रेषणैश्च तोषयामास भार्गवीम्
देवयान्यपि तं विप्रं नियमव्रतचारिणम् अनुगायन्ती ललना रहः पर्यचरत्तदा
पञ्च वर्षशतान्येवं कचस्य चरतो भृशम् तत्तत्तीव्रं व्रतं बुद्ध्वा दानवास्तं ततः कचम्
गा रक्षन्तं वने दृष्ट्वा रहस्येनममर्षिताः जघ्नुर् बृहस्पतेर् द्वेषान् निजरक्षार्थम् एव च
हत्वा सालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ततो गावो निवृत्तास्ता अगोपाः स्वनिवेशनम्
ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् उवाच वचनं काले देवयान्यथ भार्गवम्
हुतं चैवाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो अगोपाश्चागता गावः कचस्तात न दृश्यते
व्यक्तं हतो धृतो वापि कचस्तात भविष्यति तं विना नैव जीवामि वचः सत्यं ब्रवीम्यहम्
अथेह्येहीति शब्देन मृतं संजीवयाम्यहम् ततः संजीवनीं विद्यां प्रयुक्त्वा कचमाह्वयत्
आहूतः प्रादुरभवत् कचः शुक्रं ननाम स हतो ऽहमिति चाचख्यौ राक्षसैर् धिषणात्मजः
स पुनर्देवयान्युक्तः पुष्पाहारे यदृच्छया वनं ययौ कचो विप्रः पठन्ब्रह्म च शाश्वतम्