ततस् तान् अब्रवीद् ब्रह्मा पुत्रान् आत्मसमुद्भवान् प्रजाः सृजध्वम् अभितः सदेवासुरमानुषीः
एवम् उक्तास् ततः सर्वे ससृजुर् विविधाः प्रजाः गतेषु तेषु सृष्ट्यर्थं प्रणामावनताम् इमाम्
उपयेमे स विश्वात्मा शतरूपाम् अनिन्दिताम् संबभूव तया सार्धम् अतिकामातुरो विभुः सलज्जां चकमे देवः कमलोदरमन्दिरे
यावद् अब्दशतं दिव्यं यथान्यः प्राकृतो जनः ततःकालेन महता तस्याः पुत्रो ऽभवन् मनुः
स्वायंभुवो इति ख्यातः स विराड् इति नः श्रुतम् तद्रूपगुणसामान्याद् अधिपुरुष उच्यते
वैराजा यत्र ते जाता बहवः शंसितव्रताः स्वायंभुवा महाभागाः सप्त सप्त तथापरे
स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः औत्तमिप्रमुखास् तद्वद् येसां त्वं सप्तमो ऽधुना
अहो कष्टतरं चैतद् अङ्गजागमनं विभो कथं न दोषमगमत् कर्मणानेन पद्मभूः
परस्परं च सम्बन्धः सगोत्राणाम् अभूत् कथम् वैवाहिकस्तत्सुतानां छिन्द्धि मे संशयं विभो
दिव्येयमादिसृष्टिस्तु रजोगुणसमुद्भवा अतीन्द्रियेन्द्रिया तद्वद् अतीन्द्रियशरीरिका
दिव्यतेजोमयी भूप दिव्यज्ञानसमुद्भवा न मर्त्यैरभितः शक्या वक्तुं वै मांसचक्षुभिः
यथा भुजंगाः सर्पाणाम् आकाशं विश्वपक्षिणाम् विदन्ति मार्गं दिव्यानां दिव्या एव न मानवाः
कार्याकार्ये न देवानां शुभाशुभफलप्रदे यस्मात्तस्मान्न राजेन्द्र तद्विचारो नृणां शुभः
अन्यच्च सर्ववेदानाम् अधिष्ठाता चतुर्मुखः गायत्री ब्रह्मणस्तद्वद् अङ्गभूता निगद्यते
अमूर्तं मूर्तिमद् वापि मिथुनं तत्प्रचक्षते विरिञ्चिर् यत्र भगवांस् तत्र देवी सरस्वती भारती यत्र यत्रैव तत्र तत्र प्रजापतिः
यथातपो न रहितश् छायया दृश्यते क्वचित् गायत्री ब्रह्मणःपार्श्वं तथैव न विमुञ्चति
वेदराशिः स्मृतो ब्रह्मा सावित्री तदधिष्ठिता तस्मान्न कश्चिद्दोषः स्यात् सावित्रीगमने विभो
तथापि लज्जावनतः प्रजापतिर् अभूत्पुरा स्वसुतोपगमाद् ब्रह्मा शशाप कुसुमायुधम्
यस्मान्ममाभिभवता मनः संक्षोभितं शरैः तस्मात्त्वद्देहमचिराद् रुद्रो भस्मीकरिष्यति
ततः प्रसादयामास कामदेवश्चतुर्मुखम् न मामकारणे शप्तुं त्वमिहार्हसि मानद
अहमेवंविधः सृष्टस् त्वयैव चतुरानन इन्द्रियक्षोभजनकः सर्वेषामेव देहिनाम्
स्त्रीपुंसोरविचारेण मया सर्वत्र सर्वदा क्षोभ्यं मनः प्रयत्नेन त्वयैवोक्तं पुरा विभो
तस्मादनपराधो ऽहं त्वया शप्तस्तथा विभो कुरु प्रसादं भगवन् स्वशरीराप्तये पुनः
वैवस्वते ऽन्तरे प्राप्ते यादवान्वयसम्भवः रामो नाम यदा मर्त्यो मत्सत्त्वबलमाश्रितः
अवतीर्यासुरध्वंसी द्वारकाम् अधिवत्स्यति तद्भ्रातुस्तत्समस्य त्वं तदा पुत्रत्वमेष्यसि
एवं शरीरमासाद्य भुक्त्वा भोगानशेषतः ततो भरतवंशान्ते भूत्वा वत्सनृपात्मजः
विद्याधराधिपत्यं च यावद् आभूतसंप्लवम् सुखानि धर्मतः प्राप्य मत्समीपं गमिष्यसि
एवं शापप्रसादाभ्याम् उपेतः कुसुमायुधः शोकप्रमोदाभियुतो जगाम स यथागतम्
को ऽसौ यदुरिति प्रोक्तो यद्वंशे कामसम्भवः कथं च दग्धो रुद्रेण किमथ कुसुमायुधः
भरतस्यान्वये कस्य का च सृष्टिः पुराभवत् एतत्सर्वं समाचक्ष्व मूलतः संशयो हि मे