यतिर्ययातिः संयातिर् उद्भवः पाचिरेव च शर्यातिर्मेघजातिश्च सप्तैते वंशवर्धनाः
यतिः कुमारभावे ऽपि योगी वैखानसो ऽभवत् ययातिश्चाकरोद्राज्यं धर्मैकशरणः सदा
शर्मिष्ठा तस्य भार्याभूद् दुहिता वृषपर्वणः भार्गवस्यात्मजा तद्वद् देवयानी च सुव्रता
ययातेः पञ्च दायादास् तान्प्रवक्ष्यामि नामतः देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत्
तथा द्रुह्युमनुं पूरुं शर्मिष्ठाजनयत्सुतान् यदुः पूरुश्चाभवतां तेषां वंशविवर्धनौ
ययातिर्नाहुषश्चासीद् राजा सत्यपराक्रमः पालयामास स महीम् ईजे च विधिवन्मखैः
अतिभक्त्या पितॄनर्च्य देवांश्च प्रयतः सदा अथाजयत्प्रजाः सर्वा ययातिरपराजितः
स शाश्वतीः समा राजा प्रजा धर्मेण पालयन् जराम् आर्छन् महाघोरां नाहुषो रूपनाशिनीम्
जराभिभूतः पुत्रान् स राजा वचनमब्रवीत् यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च पार्थिवः
यौवनेन चलान्कामान् युवा युवतिभिः सह विहर्तुम् अहमिच्छामि साहाय्यं कुरुतात्मजाः
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् साहाय्यं भवतः कार्यम् अस्माभिर्यौवनेन किम्
ययातिरब्रवीत् पुत्राञ् जरा मे प्रतिगृह्यताम् यौवनेनाथ भवतां चरेयं विषयानहम्
यजतो दीर्घसत्त्रैर्मे शापाच्चोशनसो मुनेः कामार्थः परिहीनो मे ऽतृप्तो ऽहं तेन पुत्रकाः
स्वकीयेन शरीरेण जरामेनां प्रशास्तु वः अहं तन्वाभिनवया युवा कामानवाप्नुयाम्
न ते ऽस्य प्रत्यगृह्णन्त यदुप्रभृतयो जराम् चतुरस्तान्स राजर्षिर् अशपच्चेति नः श्रुतम्
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः जरां मा देहि नवया तन्वा मे यौवनात्सुखी
अहं जरां तवादाय राज्ये स्थास्यामि चाज्ञया एवमुक्तः स राजर्षिस् तपोवीर्यसमाश्रयात्
संस्थापयामास जरां तदा पुत्रे महात्मनि पौरवेणाथ वयसा राजा यौवनमास्थितः
ययातेश्चाथ वयसा राज्यं पूरुरकारयत् ततो वर्षसहस्रान्ते ययातिरपराजितः
अतृप्त इव कामानां पूरुं पुत्रमुवाच ह त्वया दायादवान् अस्मि त्वं मे वंशकरः सुतः
पौरवो वंश इत्येष ख्यातिं लोके गमिष्यति ततः स नृपशार्दूलः पूरुं राज्ये ऽभिषिच्य च
कालेन महता पश्चात् कालधर्मम् उपेयिवान् पूरुवंशं प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः यत्र ते भारता जाता भरतान्वयवर्धनाः
किमर्थं पौरवो वंशः श्रेष्ठत्वं प्राप भूतले ज्येष्ठस्यापि यदोर्वंशः किमर्थं हीयते श्रिया
अन्यद्ययातिचरितं सूत विस्तरतो वद यस्मात्तत्पुण्यमायुष्यम् अभिनन्द्यं सुरैरपि
एतदेव पुरा पृष्टः शतानीकेन शौनकः पुण्यं पवित्रमायुष्यं ययातिचरितं महत्
ययातिः पूर्वजो ऽस्माकं दशमो यः प्रजापतेः कथं स शुक्रतनयां लेभे परमदुर्लभाम्
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन आनुपूर्व्याच्च मे शंस पूरोर्वंशधरान्नृपान्
ययातिरासीद्राजर्षिर् देवराजसमद्युतिः तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा
तत्ते ऽहं सम्प्रवक्ष्यामि पृच्छतो राजसत्तम देवयान्याश्च संयोगं ययातेर्नाहुषस्य च
सुराणामसुराणां च समजायत वै मिथः ऐश्वर्यं प्रति संघर्षस् त्रैलोक्ये सचराचरे