विस्मृताभिनयं सर्वं यत्पुरा भरतोदितम् शशाप भरतः क्रोधाद् वियोगादस्य भूतले
पञ्चपञ्चाशदब्दानि लता सूक्ष्मा भविष्यसि पुरूरवाः पिशाचत्वं तत्रैवानुभविष्यति
ततस्तमुर्वशी गत्वा भर्तारमकरोच्चिरम् शापान्ते भरतस्याथ उर्वशी बुधसूनुतः
अजीजनत्सुतानष्टौ नामतस्तान्निबोधत आयुर् दृढायुर् अश्वायुर् धनायुर् धृतिमान्वसुः
शुचिविद्यः शतायुश्च सर्वे दिव्यबलौजसः आयुषो नहुषः पुत्रौ वृद्धशर्मा तथैव च
रजिर्दम्भो विपाप्मा च वीराः पञ्च महारथाः रजेः पुत्रशतं जज्ञे राजेयमिति विश्रुतम्
रजिराराधयामास नारायणमकल्मषम् तपसा तोषितो विष्णुर् वरान्प्रादान्महीपते
देवासुरमनुष्याणाम् अभूत्स विजयी तदा अथ देवासुरं युद्धम् अभूद् वर्षशतत्रयम्
प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः ततो देवासुरैः पृष्टः प्राह देवश्चतुर्मुखः
अनयोर्विजयी कः स्याद् रजिर्यत्रेति सो ऽब्रवीत् जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः
दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम् नासुरैः प्रतिपन्नं तत् प्रतिपन्नं सुरैस्तथा
स्वामी भव त्वमस्माकं संग्रामे नाशय द्विषः ततो विनाशिताः सर्वे ये ऽवध्या वज्रपाणिना
पुत्रत्वमगमत्तुष्टस् तस्येन्द्रः कर्मणा विभुः दत्त्वेन्द्राय तदा राज्यं जगाम तपसे रजिः
रजिपुत्रैस्तदाच्छिन्नं बलादिन्द्रस्य वैभवम् यज्ञभागं च राज्यं च तपोबलगुणान्वितैः
राज्यभ्रष्टस्तदा शक्रो रजिपुत्रैर्निपीडितः प्राह वाचस्पतिं दीनः पीडितो ऽस्मि रजेः सुतैः
न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप
ततो बृहस्पतिः शक्रम् अकरोद्बलदर्पितम् ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा
गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः जिनधर्मं समास्थाय वेदबाह्यं स वेदवित्
वेदत्रयीपरिभ्रष्टांश् चकार धिषणाधिपः वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान्
जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान् नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्
यतिर्ययातिः संयातिर् उद्भवः पाचिरेव च शर्यातिर्मेघजातिश्च सप्तैते वंशवर्धनाः
यतिः कुमारभावे ऽपि योगी वैखानसो ऽभवत् ययातिश्चाकरोद्राज्यं धर्मैकशरणः सदा
शर्मिष्ठा तस्य भार्याभूद् दुहिता वृषपर्वणः भार्गवस्यात्मजा तद्वद् देवयानी च सुव्रता
ययातेः पञ्च दायादास् तान्प्रवक्ष्यामि नामतः देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत्
तथा द्रुह्युमनुं पूरुं शर्मिष्ठाजनयत्सुतान् यदुः पूरुश्चाभवतां तेषां वंशविवर्धनौ
ययातिर्नाहुषश्चासीद् राजा सत्यपराक्रमः पालयामास स महीम् ईजे च विधिवन्मखैः
अतिभक्त्या पितॄनर्च्य देवांश्च प्रयतः सदा अथाजयत्प्रजाः सर्वा ययातिरपराजितः
स शाश्वतीः समा राजा प्रजा धर्मेण पालयन् जराम् आर्छन् महाघोरां नाहुषो रूपनाशिनीम्
जराभिभूतः पुत्रान् स राजा वचनमब्रवीत् यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च पार्थिवः
यौवनेन चलान्कामान् युवा युवतिभिः सह विहर्तुम् अहमिच्छामि साहाय्यं कुरुतात्मजाः