तथेति चोवाच हिमांशुमाली युद्धाद् अपाक्रामदतः प्रशान्तः बृहस्पतिः स्वामपगृह्य तारां हृष्टो जगाम स्वगृहं सरुद्रः
ततः संवत्सरस्यान्ते द्वादशादित्यसंनिभः दिव्यपीताम्बरधरो दिव्याभरणभूषितः
तारोदराद्विनिष्क्रान्तः कुमारश्चन्द्रसंनिभः सर्वार्थशास्त्रविद्धीमान् हस्तिशास्त्रप्रवर्तकः
नाम यद्राजपुत्रीयं विश्रुतं गजवैद्यकम् राज्ञः सोमस्य पुत्रत्वाद् राजपुत्रो बुधः स्मृतः
जातमात्रः स तेजांसि सर्वाण्येवाजयद्बली ब्रह्माद्यास्तत्र चाजग्मुर् देवा देवर्षिभिः सह
बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा अपृच्छंस्ते सुरास्तारां केन जातः कुमारकः
ततः सा लज्जिता तेषां न किंचिदवदत्तदा पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना
सोमस्येति चिरादाह ततो ऽगृह्णाद्विधुः सुतम् बुध इत्यकरोन्नाम्ना प्रादाद्राज्यं च भूतले
अभिषेकं ततः कृत्वा प्रधानमकरोद्विभुः गृहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिसंयुतः
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्
अश्वमेधशतं साग्रम् अकरोद्यः स्वतेजसा पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः
हिमवच्छिखरे रम्ये समाराध्य जनार्दनम् लोकैश्वर्यमगाद्राजा सप्तद्वीपपतिस्तदा
केशिप्रभृतयो दैत्याः कोटिशो येन दारिताः उर्वशी यस्य पत्नीत्वम् अगमद्रूपमोहिता
सप्तद्वीपा वसुमती सशैलवनकानना धर्मेण पालिता तेन सर्वलोकहितैषिणा
चामरग्राहिणी कीर्तिः सदा चैवाङ्गवाहिका विष्णोः प्रसादाद्देवेन्द्रो ददाव् अर्धासनं तदा
धर्मार्थकामान्धर्मेण समम् एवाभ्यपालयत् धर्मार्थकामाः संद्रष्टुम् आजग्मुः कौतुकात्पुरा
जिज्ञासवस्तच्चरितं कथं पश्यति नः समम् भक्त्या चक्रे ततस्तेषाम् अर्घ्यपाद्यादिकं नृपः
आसनत्रयमानीय दिव्यं कनकभूषितम् निविश्याथाकरोत्पूजाम् ईषद्धर्मे ऽधिकां पुनः
जग्मतुस्तेन कामार्थाव् अतिकोपं नृपं प्रति अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि
कामो ऽप्याह तवोन्मादो भविता गन्धमादने कुमारवनमाश्रित्य वियोगादुर्वशीभवात्
धर्मो ऽप्याह चिरायुस् त्वं धार्मिकश्च भविष्यसि संततिस्तव राजेन्द्र यावच्चन्द्रार्कतारकम्
शतशो वृद्धिमायातु न नाशं भुवि यास्यति इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदन्वभूत्
अहन्यहनि देवेन्द्रं द्रष्टुं याति स राजराट् कदाचिदारुह्य रथं दक्षिणाम्बरचारिणम्
सार्धमर्केण सो ऽपश्यन् नीयमानामथाम्बरे केशिना दानवेन्द्रेण चित्रलेखामथोर्वशीम्
तं विनिर्जित्य समरे विविधायुधपाणिना बुधपुत्रेण वायव्यम् अस्त्रं मुक्त्वा यशो ऽर्थिना
तथा शक्रो ऽपि समरे येन चैवं विनिर्जितः मित्रत्वम् अगमद् देवैर् ददाव् इन्द्राय चोर्वशीम्
ततःप्रभृति मित्रत्वम् अगमत् पाकशासनः सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम्
प्रादाद्वज्रीति संतुष्टो गेयतां भरतेन च सा पुरूरवसः प्रीत्या गायन्ती चरितं महत्
लक्ष्मीस्वयंवरं नाम भरतेन प्रवर्तितम् मेनकामुर्वशीं रम्भां नृत्यतेति तदादिशत्
ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी सा पुरूरवसं दृष्ट्वा नृत्यन्ती कामपीडिता