ततस्तुष्टस्तु भगवांस् तस्मै नारायणो हरिः वरं वृणीष्व प्रोवाच परमात्मा जनार्दनः
ततो वव्रे वरान्सोमः शक्रलोकं जयाम्यहम् प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे
राजसूये सुरगणा ब्रह्माद्याः सन्तु मे द्विजाः रक्षःपालः शिवो ऽस्माकम् आस्तां शूलधरो हरः
तथेत्युक्तः स आजह्रे राजसूयं तु विष्णुना होतात्रिर् भृगुरध्वर्युर् उद्गाताभूच्चतुर्मुखः
ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम् सदस्याः सनकाद्यास्तु राजसूयविधौ स्मृताः
चमसाध्वर्यवस्तत्र विश्वे देवा दशैव तु त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादितम्
ततः समाप्ते ऽवभृथे तद्रूपालोकनेच्छवः कामबाणाभितप्ताङ्ग्यो नव देव्यः सिषेविरे
लक्ष्मीर्नारायणं त्यक्त्वा सिनीवाली च कर्दमम् द्युतिर्विभावसुं तद्वत् तुष्टिर्धातारमव्ययम्
प्रभा प्रभाकरं त्यक्त्वा हविष्मन्तं कुहूः स्वयम् कीर्तिर्जयन्तं भर्तारं वसुर्मारीचकश्यपम्
धृतिस् त्यक्त्वा पीतं नन्दिं सोममेवाभजंस्तदा स्वकीया इव सोमो ऽपि कामयामास तास्तदा
एवं कृतापचारस्य तासां भर्तृगणस्तदा न शशाकापचाराय शापैः शस्त्रादिभिः पुनः
तथाप्यराजत विधुर् दशधा भावयन्दिशः सोमः प्राप्याथ दुष्प्राप्यम् ऐश्वर्यमृषिसंस्कृतम् सप्तलोकैकनाथत्वम् अवाप तपसा तदा
कदाचिदुद्यानगतामपश्यद् अनेकपुष्पाभरणैश्च शोभिताम् बृहन्नितम्बस्तनभारखेदात् पुष्पस्य भङ्गे ऽप्यतिदुर्बलाङ्गीम्
भार्यां च तां देवगुरोर् अनङ्ग बाणाभिरामायतचारुनेत्राम् तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ
सापि स्मरार्ता सह तेन रेमे तद्रूपकान्त्या हृतमानसेन चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततो ऽपि
न तृप्तिरासीच्च गृहे ऽपि तस्य तारानुरक्तस्य सुखागमेषु बृहस्पतिस् तद्विरहाग्निदग्धस् तद्ध्याननिष्ठैकमना बभूव
शशाक शापं न च दातुम् अस्मै न मन्त्रशस्त्राग्निविषैरशेषैः तस्यापकर्तुं विविधैरुपायैर् नैवाभिचारैरपि वागधीशः
स याचयामास ततस्तु दैन्यात् सोमं स्वभार्यार्थमनङ्गतप्तः स याच्यमानो ऽपि ददौ न तारां बृहस्पतेस्तत्सुखपाशबद्धः
महेश्वरेणाथ चतुर्मुखेण साध्यैर् मरुद्भिः सह लोकपालैः ददौ यदा तां न कथंचिद् इन्दुस् तदा शिवः क्रोधपरो बभूव
यो वामदेवः प्रथितः पृथिव्याम् अनेकरुद्रार्चितपादपद्मः ततः सशिष्यो गिरिशः पिनाकी बृहस्पतिस्नेहवशानुबद्धः
धनुर्गृहीत्वाजगवं पुरारिर् जगाम भूतेश्वरसिद्धजुष्टः युद्धाय सोमेन विशेषदीप्ततृतीयनेत्रानलभीमवक्त्रः
सहैव जग्मुश्च गणेशकाद्या विंशच्चतुःषष्टिगणास्त्रयुक्ताः यक्षेश्वरः कोटिशतैर् अनेकैर् युतो ऽन्वगात् स्यन्दनसंस्थितानाम्
वेतालयक्षोरगकिंनराणां पद्मेन चैकेन तथार्बुदेन लक्षैस् त्रिभिर् द्वादशभी रथानां सोमो ऽप्यगात्तत्र विवृद्धमन्युः
नक्षत्रदैत्यासुरसैन्ययुक्तः शनैश्चराङ्गारकवृद्धतेजाः जग्मुर्भयं सप्त तथैव लोकाश् चचाल भूर् द्वीपसमुद्रगर्भा
स सोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः अथाभवद् भीषणभीमसेनसैन्यद्वयस्यापि महाहवो ऽसौ
अशेषसत्त्वक्षयकृत्प्रवृद्धस् तीक्ष्णायुधास्त्रज्वलनैकरूपः शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगाम क्षयमुग्रतीक्ष्णैः
पतन्ति शस्त्राणि तथोज्ज्वलानि स्वर्भूमिपातालमथो दहन्ति रुद्रः कोपाद्ब्रह्मशीर्षं मुमोच सोमो ऽपि सोमास्त्रममोघवीर्यम्
तयोर्निपातेन समुद्रभूम्योर् अथान्तरिक्षस्य च भीतिरासीत् तदस्त्रयुग्मं जगतां क्षयाय प्रवृद्धमालोक्य पितामहो ऽपि
अन्तः प्रविश्याथ कथं कथंचिन् निवारयामास सुरैः सहैव अकारणं किं क्षयकृज्जनानां सोम त्वयापीत्थम् अकारि कार्यम्
यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम् पापग्रहस्त्वं भविता जनेषु शान्तो ऽप्यलं नूनमथो सितान्ते भार्यामिमामर्पय वाक्पतेस्त्वं न चावमानो ऽस्ति परस्वहारे