पुरा राजा मनुर् नाम चीर्णवान् विपुलं तपः पुत्रे राज्यं समारोप्य क्षमावान् रविनन्दनः
मलयस्यैकदेशे तु सर्वात्मगुणसंयुतः समदुःखसुखो वीरः प्राप्तवान् योगम् उत्तमम्
बभूव वरदश् चास्य वर्षायुतशते गते वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः
एवमुक्तो ऽब्रवीद् राजा प्रणम्य स पितामहम् एकम् एवाहम् इच्छामि त्वत्तो वरमनुत्तमम्
भूतग्रामस्य सर्वस्य स्थावरस्य चरस्य च भवेयं रक्षणायालं प्रलये समुपस्थिते
एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत पुष्पवृष्टिः सुमहती खात्पपात सुरार्पिता
कदाचिदाश्रमे तस्य कुर्वतः पितृतर्पणम् पपात पाण्योर् उपरि शफरी जलसंयुता
दृष्ट्वा तच्छफरीरूपं स दयालुर्महीपतिः रक्षणायाकरोद्यत्नं स तस्मिन्करकोदरे
अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः सो ऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत्
स तमादाय मणिके प्राक्षिपज्जलचारिणम् तत्रापि चैकरात्रेण हस्तत्रयम् अवर्धत
पुनः प्राहार्तनादेन सहस्रकिरणात्मजम् स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः
ततः स कूपे तं मत्स्यं प्राहिणोद् रविनन्दनः यदा न माति तत्रापि कूपे मत्स्यः सरोवरे
क्षिप्तो ऽसौ पृथुतामागात् पुनर् योजनसंमिताम् तत्राप्याह पुनर् दीनः पाहि पाहि नृपोत्तम
ततः स मनुना क्षिप्तो गङ्गायामप्यवर्धत यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः
यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः तदा प्राह मनुर्भीतः को ऽपि त्वमसुरेश्वरः
अथवा वासुदेवस्त्वम् अन्य ईदृक्कथं भवेत् योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः
ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव हृषीकेश जगन्नाथ जगद्धाम नमो ऽस्तु ते
एवमुक्तः स भगवान् मत्स्यरूपी जनार्दनः साधु साध्विति चोवाच सम्यग्ज्ञातस् त्वयानघ
अचिरेणैव कालेन मेदिनी मेदिनीपते भविष्यति जले मग्ना सशैलवनकानना
नौर् इयं सर्वदेवानां निकायेन विनिर्मिता महाजीवनिकायस्य रक्षणार्थं महीपते
स्वेदाण्डजोद्भिदो ये वै ये च जीवा जरायुजाः अस्यां निधाय सर्वांस् तान् अनाथान् पाहि सुव्रत
युगान्तवाताभिहता यदा भवति नौर् नृप शृङ्गे ऽस्मिन्मम राजेन्द्र तदेमां संयमिष्यसि
ततो लयान्ते सर्वस्य स्थावरस्य चरस्य च प्रजापतिस्त्वं भविता जगतः पृथिवीपते
एवं कृतयुगस्यादौ सर्वज्ञो धृतिमान्नृपः मन्वन्तराधिपश्चापि देवपूज्यो भविष्यसि
एवमुक्तो मनुस्तेन पप्रच्छ मधुसूदनम् भगवन्कियद्भिर्वर्षैर् भविष्यत्यन्तरक्षयः
सत्त्वानि च कथं नाथ रक्षिष्ये मधुसूदन त्वया सह पुनर्योगः कथं वा भविता मम
अद्यप्रभृत्यनावृष्टिर् भविष्यति महीतले यावद्वर्षशतं साग्रं दुर्भिक्षम् अशुभावहम्
ततो ऽल्पसत्त्वक्षयदा रश्मयः सप्त दारुणाः सप्तसप्तेर्भविष्यन्ति प्रतप्ताङ्गारवर्षिणः
और्वानलो ऽपि विकृतिं गमिष्यति युगक्षये विषाग्निश्चापि पातालात् संकर्षणमुखच्युतः भवस्यापि ललाटोत्थस् तृतीयनयनानलः
त्रिजगन्निर्दहन् क्षोभं समेष्यति महामुने एवं दग्धा मही सर्वा यदा स्याद्भस्मसंनिभा