पातालादुत्पतिष्णोर् मकरवसतयो यस्य पुच्छाभिघाताद् ऊर्ध्वं ब्रह्माण्डखण्डव्यतिकरविहितव्यत्ययेनापतन्ति विष्णोर्मत्स्यावतारे सकलवसुमतीमण्डलं व्यश्नुवानास् तस्यास्योदीरितानां ध्वनिर् अपहरताद् अश्रियं वः श्रुतीनाम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् देवीं सरस्वतीं चैव ततो जयम् उदीरयेत्
अजो ऽपि यः क्रियायोगान् नारायण इति स्मृतः त्रिगुणाय त्रिवेदाय नमस् तस्मै स्वयम्भुवे
सूतमेकाग्रमासीनं नैमिषारण्यवासिनः मुनयो दीर्घसत्त्रान्ते पप्रच्छुर् दीर्घसंहिताम्
प्रवृत्तासु पुराणीषु धर्म्यासु ललितासु च कथासु शौनकाद्यास् तु अभिनन्द्य मुहुर्मुहुः
कथितानि पुराणानि यान्यस्माकं त्वयानघ तान्येवामृतकल्पानि श्रोतुम् इच्छामहे पुनः
कथं ससर्ज भगवंल् लोकनाथश्चराचरम् कस्माच्च भगवान् विष्णुर् मत्स्यरूपत्वम् आश्रितः
भैरवत्वं भवस्यापि पुरारित्वं च केन हि कस्य हेतोः कपालित्वं जगाम वृषभध्वजः
सर्वम् एतत् समाचक्ष्व सूत विस्तरशः क्रमात् त्वद्वाक्येनामृतस्येव न तृप्तिरिह जायते
पुण्यं पवित्रम् आयुष्यम् इदानीं शृणुत द्विजाः मात्स्यं पुराणमखिलं यज्जगाद गदाधरः
पुरा राजा मनुर् नाम चीर्णवान् विपुलं तपः पुत्रे राज्यं समारोप्य क्षमावान् रविनन्दनः
मलयस्यैकदेशे तु सर्वात्मगुणसंयुतः समदुःखसुखो वीरः प्राप्तवान् योगम् उत्तमम्
बभूव वरदश् चास्य वर्षायुतशते गते वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः
एवमुक्तो ऽब्रवीद् राजा प्रणम्य स पितामहम् एकम् एवाहम् इच्छामि त्वत्तो वरमनुत्तमम्
भूतग्रामस्य सर्वस्य स्थावरस्य चरस्य च भवेयं रक्षणायालं प्रलये समुपस्थिते
एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत पुष्पवृष्टिः सुमहती खात्पपात सुरार्पिता
कदाचिदाश्रमे तस्य कुर्वतः पितृतर्पणम् पपात पाण्योर् उपरि शफरी जलसंयुता
दृष्ट्वा तच्छफरीरूपं स दयालुर्महीपतिः रक्षणायाकरोद्यत्नं स तस्मिन्करकोदरे
अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः सो ऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत्
स तमादाय मणिके प्राक्षिपज्जलचारिणम् तत्रापि चैकरात्रेण हस्तत्रयम् अवर्धत
पुनः प्राहार्तनादेन सहस्रकिरणात्मजम् स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः
ततः स कूपे तं मत्स्यं प्राहिणोद् रविनन्दनः यदा न माति तत्रापि कूपे मत्स्यः सरोवरे
क्षिप्तो ऽसौ पृथुतामागात् पुनर् योजनसंमिताम् तत्राप्याह पुनर् दीनः पाहि पाहि नृपोत्तम
ततः स मनुना क्षिप्तो गङ्गायामप्यवर्धत यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः
यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः तदा प्राह मनुर्भीतः को ऽपि त्वमसुरेश्वरः
अथवा वासुदेवस्त्वम् अन्य ईदृक्कथं भवेत् योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः
ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव हृषीकेश जगन्नाथ जगद्धाम नमो ऽस्तु ते
एवमुक्तः स भगवान् मत्स्यरूपी जनार्दनः साधु साध्विति चोवाच सम्यग्ज्ञातस् त्वयानघ
अचिरेणैव कालेन मेदिनी मेदिनीपते भविष्यति जले मग्ना सशैलवनकानना
नौर् इयं सर्वदेवानां निकायेन विनिर्मिता महाजीवनिकायस्य रक्षणार्थं महीपते