बीजापहारिणी चान्या स्त्रीपुंसोरतिभीषणा । मेध्यान्नभोजनैः स्नानैस्तस्याश्चोपशमो भवेत॥५१.
अष्टमी द्वेषणी नाम कन्या लोकभयावहा । या करोति जनद्विष्टं नरं नारीमथापि वा॥५१.
मधुक्षीरघृताक्तांस्तु शान्त्यर्थं होमयेत्तिलान् । कुर्वोत मित्रविन्दाञ्च तथेष्टिन्तत् प्रशान्यते॥५१.
एतेषान्तु कुमाराणां कन्यानां द्विजसत्तम । अष्टत्रिंशदपत्यानि तेषां नामानि मे शृणु॥५१.
दन्ताकृष्टेरभूत् कन्या विजल्पा कलहा तथा । अवज्ञानृतदुष्टोक्तिर्विजल्पा तत्प्रशान्तये॥५१.
तामेव चिन्तयेत् प्राज्ञः प्रयतश्च गृही भवेत् । कलहा कलहं गेहे करोत्यविरतं नृणाम्॥५१.
कुटुम्बनाशहेतुः सा तत्प्रशान्तिं निशामय । दूर्वाङ्कुरान्मधुघृतक्षीराक्तान् बलिकर्मणि॥५१.
विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्तयेत् । भूतानां मातृभिः सार्धं बालकानान्तु शान्तये॥५१.
विद्यानां तपसाञ्चैव संयमस्य यमस्य च । कृष्यां वाणिज्यलाभे च शान्तिं कुर्वन्तु मे सदा॥५१.
पूजिताश्च यथान्यायं तुष्टिं गच्छन्तु सर्वशः । कुष्माण्डा यातुधानाश्च ये चान्ये गणसंज्ञिताः॥५१.
महादेवप्रसादेन महेश्वरमतेन च । सर्व एते नृणां नित्यं तुष्टिमाशु व्रजन्तु ते॥५१.
तुष्टाः सर्वं निरस्यन्तु दुष्कृतं दुरनुष्ठितम् । महापताकजं सर्वं यच्चान्यद्विघ्नकारणम्॥५१.
तेषामेव प्रसादेन विघ्ना नश्यन्तु सर्वशः । उद्वाहेषु च सर्वेषु वृद्धिकर्मंसु चैव हि॥५१.
पुण्यानुष्ठानयोगेषु गुरुदेवार्चनेषु च । जपयज्ञविधानेषु यात्रासु च चतुर्दश॥५१.
शरीरारोग्यभोग्येषु सुखदानधनेषु च । वृद्धबालातुरेष्वेव शान्तिं कुर्वन्तु मे सदा॥५१.
सोमाम्बुपौ तथाम्भोधिः सविता चानिलानलौ । तथोक्तेः कालजिह्वोऽभूत् पुत्रस्तालनिकेतनः॥५१.
स येषां रसनासंस्थास्तानसाधून् विबाधते । परिवर्तसुतौ द्वौ तु विरूपविकृतौ द्विज॥५१.
तौ तु वृक्षाग्रपरिखाप्राकाराम्भोधिसंश्रयौ । गुर्विण्याः परिवर्तन्तौ कुरुतः पादपाणिषु॥५१.
क्रौष्टुके परिवर्तःस्यात् गर्भस्यान्योदरात्ततः । न वृक्षं चैव नैवाद्रिं न प्राकारं महोदधिम्॥५१.
परिखां वा समाक्रामेदबला गर्भधारिणी । अङ्गध्रुक् तनयं लेभे पिशुनं नाम नामतः॥५१.
सोऽस्थिमज्जागतः पुंसां बलमत्त्यजितात्मनाम् । श्येन-काक-कपोतांश्च गृध्रोलूकैश्च वै सुतान्॥५१.
अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः । श्येनं जग्राह मृत्युश्च काकं कालो गृहीतवान्॥५१.
उलूकं निरृतिश्चैव जग्राहातिभयावहम् । गृध्रं व्याधिस्तदीशोऽथ कपोतं च स्वयं यमः॥५१.
एतेषामेव चैवोक्ता भूताः पापोपपादने । तस्माच्छ्येनादयो यस्य निलीयेयुः शिरस्यथ॥५१.
तेनात्मरक्षणायालं शान्तिं कुर्याद्विजोत्तम । गेहे प्रसूतिरेतेषां तद्वन्नीडनिवेशनम्॥५१.
नरस्तं वर्जयेद् गेहं कपोताक्रान्तमस्तकम् । श्येनः कपोतो गृध्रश्च काकोलूकौ गृहे द्विज॥५१.
प्रविष्टः कथयेदन्तं वसतां तत्र वेश्मनि । ईदृक् परित्यजेद् गेहं शान्तिं कुर्याच्च पण्डितः॥५१.
स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते । षडपत्यानि कथ्यन्ते गण्डप्रान्तरतेस्तथा॥५१.
स्त्रीणां रजस्यवस्थानं तेषां कालांश्च मे शृणु । चत्वार्यहानि पूर्वाणि तथैवान्यत् त्रयोदश॥५१.
एकादश तथैवान्यदपत्यं तस्य वै दिने । अन्यद्दिनाभिगमने श्राद्धदाने तथापरे॥५१.