रागं कुसुम्भकादीनां कार्पासात् सूत्रमेव च । सा स्वयंहारिका नाम हरत्यविरतं द्विज॥५१.
कुर्याच्छिखण्डिनोर्द्वन्द्वं रक्षार्थं कुत्रिमां स्त्रियम् । रक्षाश्चैव गृहे लेख्या वर्ज्याचो च्छिष्टता तथा॥५१.
होमाग्निदेवताधूपभस्मना च परिष्क्रिया । कार्या क्षीरादिभाण्डानामेवं तद्रक्षणं स्मृतम्॥५१.
उद्वेगं जनयत्यन्या एकस्थाननिवासिनः । पुरुषस्य तु या प्रोक्ता भ्रामणी सा तु कन्यका॥५१.
तस्याथ रक्षां कुर्वोत विक्षिप्तैः सितसर्षपैः । आसने शयने चोर्व्यां यत्रास्ते स तु मानवः॥५१.
चिन्तयेच्च नरः पापा मामेषा दुष्टचेतना । भ्रामयत्यसकृज्जप्यं भुवः सूक्तं समाधिना॥५१.
स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका । तथाप्रवृत्तं सा ज्ञेया दौः सहा ऋतहारिका॥५१.
कुर्वोत तीर्थदेवौकश्चैत्यपर्वतसानुषु । नदीसङ्गमखातेषु स्त्रपनं तत्प्रशान्यते॥५१.
मन्त्रवित् कृततत्त्वज्ञः पर्वसूषसि च द्विज । चिकित्साज्ञश्च वै वैद्यः संप्रयुक्तैर्वरौषधैः॥५१.
स्मृतिञ्चापहरत्यन्या स्त्रीणां सा स्मृतिहारिका । विविक्तदेशसेवित्वात्तस्याश्चोपशमो भवेत्॥५१.
बीजापहारिणी चान्या स्त्रीपुंसोरतिभीषणा । मेध्यान्नभोजनैः स्नानैस्तस्याश्चोपशमो भवेत॥५१.
अष्टमी द्वेषणी नाम कन्या लोकभयावहा । या करोति जनद्विष्टं नरं नारीमथापि वा॥५१.
मधुक्षीरघृताक्तांस्तु शान्त्यर्थं होमयेत्तिलान् । कुर्वोत मित्रविन्दाञ्च तथेष्टिन्तत् प्रशान्यते॥५१.
एतेषान्तु कुमाराणां कन्यानां द्विजसत्तम । अष्टत्रिंशदपत्यानि तेषां नामानि मे शृणु॥५१.
दन्ताकृष्टेरभूत् कन्या विजल्पा कलहा तथा । अवज्ञानृतदुष्टोक्तिर्विजल्पा तत्प्रशान्तये॥५१.
तामेव चिन्तयेत् प्राज्ञः प्रयतश्च गृही भवेत् । कलहा कलहं गेहे करोत्यविरतं नृणाम्॥५१.
कुटुम्बनाशहेतुः सा तत्प्रशान्तिं निशामय । दूर्वाङ्कुरान्मधुघृतक्षीराक्तान् बलिकर्मणि॥५१.
विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्तयेत् । भूतानां मातृभिः सार्धं बालकानान्तु शान्तये॥५१.
विद्यानां तपसाञ्चैव संयमस्य यमस्य च । कृष्यां वाणिज्यलाभे च शान्तिं कुर्वन्तु मे सदा॥५१.
पूजिताश्च यथान्यायं तुष्टिं गच्छन्तु सर्वशः । कुष्माण्डा यातुधानाश्च ये चान्ये गणसंज्ञिताः॥५१.
महादेवप्रसादेन महेश्वरमतेन च । सर्व एते नृणां नित्यं तुष्टिमाशु व्रजन्तु ते॥५१.
तुष्टाः सर्वं निरस्यन्तु दुष्कृतं दुरनुष्ठितम् । महापताकजं सर्वं यच्चान्यद्विघ्नकारणम्॥५१.
तेषामेव प्रसादेन विघ्ना नश्यन्तु सर्वशः । उद्वाहेषु च सर्वेषु वृद्धिकर्मंसु चैव हि॥५१.
पुण्यानुष्ठानयोगेषु गुरुदेवार्चनेषु च । जपयज्ञविधानेषु यात्रासु च चतुर्दश॥५१.
शरीरारोग्यभोग्येषु सुखदानधनेषु च । वृद्धबालातुरेष्वेव शान्तिं कुर्वन्तु मे सदा॥५१.
सोमाम्बुपौ तथाम्भोधिः सविता चानिलानलौ । तथोक्तेः कालजिह्वोऽभूत् पुत्रस्तालनिकेतनः॥५१.
स येषां रसनासंस्थास्तानसाधून् विबाधते । परिवर्तसुतौ द्वौ तु विरूपविकृतौ द्विज॥५१.
तौ तु वृक्षाग्रपरिखाप्राकाराम्भोधिसंश्रयौ । गुर्विण्याः परिवर्तन्तौ कुरुतः पादपाणिषु॥५१.
क्रौष्टुके परिवर्तःस्यात् गर्भस्यान्योदरात्ततः । न वृक्षं चैव नैवाद्रिं न प्राकारं महोदधिम्॥५१.
परिखां वा समाक्रामेदबला गर्भधारिणी । अङ्गध्रुक् तनयं लेभे पिशुनं नाम नामतः॥५१.