स्मृतिबीजहरे चान्ये तयोः कन्येऽतिदारुणे । विद्वेषण्यष्टमी नाम कन्या लोकभयावहा॥५१.
एतासां कर्म वक्ष्यामि दोषप्रशमनञ्च यत् । अष्टानाञ्च कुमाराणां श्रुयतां द्विजसत्तम॥५१.
दन्ताकृष्टिः प्रसुप्तानां बालानां दशनस्थितः । करोति दन्तसंघर्षं चिकीर्षुर्दुः सहागमम्॥५१.
तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः । शयनस्योपरि क्षिप्तैर्मानुषैर्दशनोपरि॥५१.
सुवार्च्चलौषधीस्नानात्तथा सच्छास्त्रकीर्तनात् । उष्ट्रकण्टकखड्गास्थि-क्षौमवस्त्रविधारणात्॥५१.
तिष्ठत्यन्यकुमारस्तु तथास्त्त्वित्यसकृद् ब्रुवन् । शुभाशुभे नृणां युङ्क्ते तथोक्तिस्तच्च नान्यथा॥५१.
तस्माददुष्टं मङ्गल्यं वक्तव्यं पण्डितैः सदा । दुष्टे श्रुते तथैवोक्ते कीर्तनीयो जनार्दनः॥५१.
चराचरगुरुर्ब्रह्मा या यस्य कुलदेवता । अन्यगर्भे परान् गर्भान् सदैव परिवर्तयन्॥५१.
रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत् । परिवर्तकसंज्ञोऽयं तस्यापि सितसर्षपैः॥५१.
रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्वोत तत्त्ववित् । अन्यश्चानिलवन्नृणामङ्गेषु स्फुरणोदितम्॥५१.
शुभाशुभं समाचष्टे कुशैस्तस्याङ्गताडनम् । काकादिपक्षिसंस्थोऽन्यः श्वादेरङ्गगतोऽपि वा॥५१.
शुभाशुभञ्च शकुनिः कुमारोऽन्यो ब्रवीति वै । तत्रापि दुष्टे व्याक्षेपः प्रारम्भत्याग एव च॥५१.
शुभे द्रुततरं कार्यमिति प्राह प्रजापतिः । गण्डान्तेषु स्थितश्चान्यो मुहूर्तार्धं द्विजोत्तम॥५१.
सर्वारम्भान् कुमारोऽत्ति शस्ताताञ्चानसूयताम् । विप्रोक्त्या देवतास्तुत्या मूलोत्खातेन च द्विज॥५१.
गोमूत्रसर्षपस्त्रानैस्तदृक्षग्रहपूजनैः । पुनश्च धर्मोपनिषत्करणैः शास्त्रदर्शनैः॥५१.
अनज्ञया जन्मनश्च प्रशमं याति गण्डवान् । गर्भे स्त्रीणां तथान्यस्तु फलनाशी सुदारुणः॥५१.
तस्य रक्षा सदा कार्या नित्यं शौचनिषेवणात् । प्रसिद्धमन्त्रलिखनाच्छस्तमाल्यादिधारणात्॥५१.
विशुद्धगेहावसथादनायासाच्च वै द्विज । तथैव सस्यहा चान्यः सस्यर्धिमुपहन्ति यः॥५१.
तस्यापि रक्षां कुर्वोत जीर्णोपानद्विधारणात् । तथापसव्यगमनाच्छाण्डालस्य प्रवेशनात्॥५१.
बहिर्बलिप्रदानाच्च सोमाम्बुपरिकीर्तनात् । परदारपहद्रव्यहरणादिषु मानवान्॥५१.
नियोजयति चैवान्यान् कन्या सा च नियोजिका । तस्याः पवित्रपठनात् क्रोधलोभादिवर्जनात्॥५१.
नियोजयति मामिष्टविरोधाच्च विवर्जनम् । आक्रुष्टोऽन्येन मन्येत ताडितो वा नियोजिका॥५१.
नियोजयत्येनमिति न गच्छेत्तद्वशं बुधः । परदारादिसंसर्गे चित्तमात्मानमेव च॥५१.
नियोजयत्यत्र सा मामिति प्राज्ञो विचिन्तयेत् । विरोधं कुरुते चान्या दम्पत्योः प्रीयमाणयोः॥५१.
बन्धूनां सुहृदां पित्रोः पुत्रैः सावर्णिकैश्च या । विरोधिनी सा तद्रक्षां कुर्वोत बलिकर्मणा॥५१.
तथातिवादसहनाच्छास्त्राचारनिषेवणात् । धान्यं खलाद् गृहाद् गोभ्यः पयः सर्पिस्तथापरा॥५१.
समृद्धिमृद्धिमद्द्रव्यादपहिन्ति च कन्यका । सा स्वयंहारिकेत्युक्ता सदान्तर्धानतत्परा॥५१.
महानसादर्धसिद्धमन्नागारस्थितं तथा । परिविश्यमाणञ्च सदा सार्धं भुङ्क्ते च भुञ्जता॥५१.
उच्छेषणं मनुष्याणां हरत्यन्नञ्च दुर्हरा । कर्मान्तागारशालाभ्यः सिद्धर्धि हरति द्विज॥५१.
गोस्त्रीस्तनेभ्यश्च पयः क्षीरहारी सदैव सा । दध्नो घृतं तिलात्तैलं सुरागारात्तथा सुराम्॥५१.