अशस्त्रा देवता यत्र सशस्त्राश्चाहवं विना । कल्प्यन्ते मनुजैरर्च्यास्तत् परित्यज मन्दिरम्॥५०.
पौरजानपदैर्यत्र प्राक्प्रसिद्धमहोत्सवाः । क्रियन्ते पूर्ववद् गेहे न त्वं तत्र गृहे चर॥५०.
शूर्पवातघटाम्भोभिः स्त्रानं वस्त्राम्बुविप्रुषैः । नखाग्रसलिलैश्चैव तान् याहि हतलक्षणान्॥५०.
देशाचारान् समयान् ज्ञातिधर्मं जपं होपं मङ्गलं देवतेष्टिम् । सम्यक्शौचं विधिवल्लोकवादान् पुंसस्त्वया कुर्वतो मास्तु सङ्गः॥५०.
मार्कण्डेय उवाच इत्युक्त्वा दुः सहं ब्रह्मा तत्रैवान्तरधीयत । चकार शासनं सोऽपि तथा पङ्कजजन्मनः॥५०.
एकपञ्चाशोऽध्यायः- ५१ मार्कण्डेय उवाच दुः सहस्याभवद्भार्या निर्माष्टिर्नाम नामतः । जाता कलेस्तु भार्यायामृतौ चाण्डालदर्शनात्॥५१.
तयोरपत्यान्यभवने जगद्व्यापीनि षोडश । अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः॥५१.
तन्ताकृष्टिस्तथोक्तिश्च परिवर्तस्तथापरः । अङ्गध्रुक् शकुनिश्चैव गण्डप्रान्तरतिस्तथा॥५१.
गर्भहा सस्यहा चान्यः कुमारास्तनयास्तयोः । कन्याश्चान्यास्तथैवाष्टौ तासां नामानि मे शृणु॥५१.
नियोजिका वै प्रथमा तथैवान्या विरोधिनी । स्वयंहारकरी चैव भ्रामणी ऋतुहारिका॥५१.
स्मृतिबीजहरे चान्ये तयोः कन्येऽतिदारुणे । विद्वेषण्यष्टमी नाम कन्या लोकभयावहा॥५१.
एतासां कर्म वक्ष्यामि दोषप्रशमनञ्च यत् । अष्टानाञ्च कुमाराणां श्रुयतां द्विजसत्तम॥५१.
दन्ताकृष्टिः प्रसुप्तानां बालानां दशनस्थितः । करोति दन्तसंघर्षं चिकीर्षुर्दुः सहागमम्॥५१.
तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः । शयनस्योपरि क्षिप्तैर्मानुषैर्दशनोपरि॥५१.
सुवार्च्चलौषधीस्नानात्तथा सच्छास्त्रकीर्तनात् । उष्ट्रकण्टकखड्गास्थि-क्षौमवस्त्रविधारणात्॥५१.
तिष्ठत्यन्यकुमारस्तु तथास्त्त्वित्यसकृद् ब्रुवन् । शुभाशुभे नृणां युङ्क्ते तथोक्तिस्तच्च नान्यथा॥५१.
तस्माददुष्टं मङ्गल्यं वक्तव्यं पण्डितैः सदा । दुष्टे श्रुते तथैवोक्ते कीर्तनीयो जनार्दनः॥५१.
चराचरगुरुर्ब्रह्मा या यस्य कुलदेवता । अन्यगर्भे परान् गर्भान् सदैव परिवर्तयन्॥५१.
रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत् । परिवर्तकसंज्ञोऽयं तस्यापि सितसर्षपैः॥५१.
रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्वोत तत्त्ववित् । अन्यश्चानिलवन्नृणामङ्गेषु स्फुरणोदितम्॥५१.
शुभाशुभं समाचष्टे कुशैस्तस्याङ्गताडनम् । काकादिपक्षिसंस्थोऽन्यः श्वादेरङ्गगतोऽपि वा॥५१.
शुभाशुभञ्च शकुनिः कुमारोऽन्यो ब्रवीति वै । तत्रापि दुष्टे व्याक्षेपः प्रारम्भत्याग एव च॥५१.
शुभे द्रुततरं कार्यमिति प्राह प्रजापतिः । गण्डान्तेषु स्थितश्चान्यो मुहूर्तार्धं द्विजोत्तम॥५१.
सर्वारम्भान् कुमारोऽत्ति शस्ताताञ्चानसूयताम् । विप्रोक्त्या देवतास्तुत्या मूलोत्खातेन च द्विज॥५१.
गोमूत्रसर्षपस्त्रानैस्तदृक्षग्रहपूजनैः । पुनश्च धर्मोपनिषत्करणैः शास्त्रदर्शनैः॥५१.
अनज्ञया जन्मनश्च प्रशमं याति गण्डवान् । गर्भे स्त्रीणां तथान्यस्तु फलनाशी सुदारुणः॥५१.
तस्य रक्षा सदा कार्या नित्यं शौचनिषेवणात् । प्रसिद्धमन्त्रलिखनाच्छस्तमाल्यादिधारणात्॥५१.
विशुद्धगेहावसथादनायासाच्च वै द्विज । तथैव सस्यहा चान्यः सस्यर्धिमुपहन्ति यः॥५१.
तस्यापि रक्षां कुर्वोत जीर्णोपानद्विधारणात् । तथापसव्यगमनाच्छाण्डालस्य प्रवेशनात्॥५१.
बहिर्बलिप्रदानाच्च सोमाम्बुपरिकीर्तनात् । परदारपहद्रव्यहरणादिषु मानवान्॥५१.