यदा प्रसृष्टा ओषध्यो न प्ररोहन्ति ताः पुनः । ततः स तासां वृद्ध्यर्थं वार्तोपायञ्चकार ह॥४९.
ब्रह्मा स्वयम्भूर्भगवान् हस्तसिद्धिञ्च कर्मजाम् । ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे॥४९.
संसिद्धायान्तु वार्तायां ततस्तासां स्वयं प्रभुः । मर्यादां स्थापयामास यथान्यायं यथागुणम्॥४९.
वर्णानामाश्रमाणाञ्च धर्मान् धर्मभृतांवर । लोकानां सर्ववर्णानां सम्यग्धर्मार्थपालिनाम्॥४९.
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम्॥४९.
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् । गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तताम्॥४९.
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् । स्मृतं तेषान्तु यत् स्थानं तदेव गुरुवासिनाम्॥४९.
सप्तर्षोणान्तु यत् स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् । योगिनाममृतं स्थानमिति वै स्थानकल्पना॥४९.
भास्करादृष्टशय्यानि नित्याग्निसलिलानि च । सूर्यावलोकदीपानि लक्ष्म्या गेहानि भाजनम्॥५०.
यत्रोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी । विषाज्यताम्रपात्राणि तद्गृहं न तवाश्रयः॥५०.
यत्र कष्टकिनो वृक्षा यत्र निष्पाववल्लरी । भार्या पुनर्भूर्वल्मीकस्तद्यक्ष ! तव मन्दिरम्॥५०.
यस्मिन् गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः । अन्धकारेन्धनाग्निश्च तद्गृहं वसतिस्तव॥५०.
एकच्छागं द्विवालेयं त्रिगवं पञ्चमाहिषम् । षडश्वं सप्तमातङ्गं गृहं यक्षाशु शोषय॥५०.
कुद्दालदात्रपिटकं तद्वत् स्थाल्यादिभाजनम् । यत्र तत्रैव क्षिप्तानि तव दद्युः प्रतिश्रयम्॥५०.
मुसलोलूखले स्त्रीणामास्या तद्वदुदुम्बरे । अवस्करे मन्त्रणञ्च यक्षैतदुपकृत् तव॥५०.
लङ्घ्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि । तद्वच्छास्त्राणि तत्र त्वं यथेष्टं चर दुः सह॥५०.
स्थालीपिधाने यत्राग्निर्दत्तो दर्वोफलेन वा । गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः॥५०.
मानुषास्थि गृहे यत्र दिवारात्रं मृतस्थितिः । तत्र यक्ष ! तवावासस्तथान्येषाञ्च रक्षसाम्॥५०.
अदत्त्वा भुञ्जते ये वै बन्धोः पिण्डं तथोदकम् । सपिण्डान् सोदकांश्चैव तत्काले तान् नरान् भज॥५०.
यत्र पद्मपहापद्मौ सुरभिर्मोकाशिनी । वृषभैरावतौ यत्र कल्प्यन्ते तद्गृहं त्यज॥५०.
अशस्त्रा देवता यत्र सशस्त्राश्चाहवं विना । कल्प्यन्ते मनुजैरर्च्यास्तत् परित्यज मन्दिरम्॥५०.
पौरजानपदैर्यत्र प्राक्प्रसिद्धमहोत्सवाः । क्रियन्ते पूर्ववद् गेहे न त्वं तत्र गृहे चर॥५०.
शूर्पवातघटाम्भोभिः स्त्रानं वस्त्राम्बुविप्रुषैः । नखाग्रसलिलैश्चैव तान् याहि हतलक्षणान्॥५०.
देशाचारान् समयान् ज्ञातिधर्मं जपं होपं मङ्गलं देवतेष्टिम् । सम्यक्शौचं विधिवल्लोकवादान् पुंसस्त्वया कुर्वतो मास्तु सङ्गः॥५०.
मार्कण्डेय उवाच इत्युक्त्वा दुः सहं ब्रह्मा तत्रैवान्तरधीयत । चकार शासनं सोऽपि तथा पङ्कजजन्मनः॥५०.
एकपञ्चाशोऽध्यायः- ५१ मार्कण्डेय उवाच दुः सहस्याभवद्भार्या निर्माष्टिर्नाम नामतः । जाता कलेस्तु भार्यायामृतौ चाण्डालदर्शनात्॥५१.
तयोरपत्यान्यभवने जगद्व्यापीनि षोडश । अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः॥५१.
तन्ताकृष्टिस्तथोक्तिश्च परिवर्तस्तथापरः । अङ्गध्रुक् शकुनिश्चैव गण्डप्रान्तरतिस्तथा॥५१.
गर्भहा सस्यहा चान्यः कुमारास्तनयास्तयोः । कन्याश्चान्यास्तथैवाष्टौ तासां नामानि मे शृणु॥५१.
नियोजिका वै प्रथमा तथैवान्या विरोधिनी । स्वयंहारकरी चैव भ्रामणी ऋतुहारिका॥५१.