; हरिश्चन्द्र उवाच भगवन् राज्यमेतत् ते दत्तं निहतकण्टकम् । अवशिष्टमिदं ब्रह्मन्नद्य देहत्रयं मम॥७.
; विश्वामित्र उवाच तथापि खलु दातव्या त्वया मे यज्ञदक्षिणा । विशेषतो ब्राह्मणानं हन्त्यदत्तं प्रतिश्रुतम्॥७.
यावत् तोषो राजसूये ब्राह्मणानां तभवेन्नृप । तावदेव तु दातव्या दक्षिणा राजसूयिकी॥७.
प्रतिश्रुत्य च दातव्यं योद्धव्यं चाततायिभिः । रक्षितव्यास्तथा चार्तास्त्वयैव प्राक् प्रतिश्रुतम्॥७.
; हरिश्चन्द्र उवाच भगवन् साम्प्रतं नास्ति दास्ये कालक्रमेण ते । प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च॥७.
; विश्वामित्र उवाच किम्प्रमाणो मया कालः प्रतीक्ष्यस्ते जनाधिप । शीघ्रमाचक्ष्व शापाग्निरन्यथा त्वां प्रधक्ष्यति॥७.
; हरिचन्द्र उवाच मासेन तव विप्रर्षे प्रदास्ये दक्षिणाधनम् । साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि॥७.
; विश्वामित्र उवाच गच्छ गच्छ नृपश्रेष्ठ स्वधर्ममनुपालय । शिवश्च तेऽध्वा भवतु मा सन्तु परिपन्थिनः॥७.
; पक्षिण ऊचुः अनुज्ञातश्च गच्छेति जगाम वसुधाधिपः । पद्भ्यामनुचिता गन्तुमन्वगच्छत तं प्रिया॥७.
तं सभार्यं नृपश्रेष्ठं निर्यान्तं ससुतं पुरात् । दृष्ट्वा प्रचुक्रुशुः पौरा राज्ञश्चैवानुयायिनः॥७.
हानाथ किं जहास्यस्मान् नित्यार्तिपरिपीडितान् । त्वं धर्मतत्परो राजन् पौरानुग्रहकृत् तथा॥७.
नयास्मानपि राजर्षे यदि धर्ममवेक्षसे । मुहूर्तं तिष्ठ राजेन्द्र भवतो मुखपङ्कजम्॥७.
पिबामो नेत्रभ्रमरैः कदा द्रक्ष्यामहे पुनः । यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः॥७.
तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् । यस्य भृत्याः प्रयातस्य यान्तयग्रे कुञ्जचरस्थिताः॥७.
स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽद्य गच्छति । हा राजन् सुकुमारं ते सुभ्रु सुत्वचमुन्नसम्॥७.
पथि पांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति । तिष्ठ तिष्ठ नृपश्रेष्ठ स्वधर्ममनुपालय॥७.
आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः । किं दारैः किं सुतैर्नाथ धनैर्धान्यैरथापि वा॥७.
सर्वमेतत् परित्यज्य छायाभूता वयं तव । हानाथ हा महाराज हा स्वामिन् किं जहासि नः॥७.
यत्र त्वं तत्र हि वयं तत् सुखं यत्र वै भवान् । नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः॥७.
इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः । अतिष्ठत् स तदा मार्गे तेषामेवानुकम्पया॥७.
विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् । रोषमर्षविवृत्ताक्षः समागम्य वचोऽब्रवीत्॥७.
धिक् त्वां दुष्टसमाचारमनृतं जिह्मभाषणम् । मम राज्यं च दत्वा यः पुनः प्राक्रष्टुमिच्छसि॥७.
इत्युक्तः परुषं तेन गच्छामीति सवेपथुः । ब्रुवन्नेवं ययौ शीघ्रमाकर्षन् दयितां करे॥७.
कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् । सहसा दण्डकाष्ठेन ताडयामास कौशिकः॥७.
तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः । गच्छामीत्याह दुः खार्तो नान्यत् किञ्चिदुदाहरत्॥७.
अथ विश्वे तदा देवाः पञ्च प्राहुः कृपालवः । विश्वामित्रः सुपापोऽयं लोकान् कान् समवाप्स्यति॥७.
येनायां यज्वनां श्रेष्ठः स्वराज्यादवरोपितः । कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे । पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरः सरम्॥७.
; पक्षिण ऊचुः इति तेषां वचः श्रुत्वा कौशिकोऽतिरुषान्वितः । शशाप तान् मनुष्यत्वं सर्वे यूयमवाप्स्यथ॥७.
प्रसादितश्च तैः प्राह पुनरेव महामुनिः. मानुषत्वेऽपि भवतां भवित्री नैव सन्ततिः॥७.
न दारसंग्रहश्चैव भविता न च मत्सरः । कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः॥७.