देवाः सप्तर्षयः सेन्द्रा मनुस्तत्सूनवो नृपाः । मनुना सह सृज्यन्ते संह्रियन्ते च पूर्ववत्॥४६.
चतुर्युगानां संख्याता साधिका ह्ये कसप्ततिः । मन्वन्तरं तस्य संख्यां मानुषाब्दैर्निबोध मे॥४६.
त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विज । सत्पषष्टिस्तथान्यानि नियुतानि च संख्यया॥४६.
विंशतिश्च सहस्राणि कालोऽयं साधिकं विना । एतन्मन्वन्तरं प्रोक्तं दिव्यैर्वर्षैर्निबोध मे॥४६.
अष्टौ वर्षसहस्राणि दिव्यया संख्यया युतम् । द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु॥४६.
चतुर्दशगुणो ह्येष कालो ब्रह्म्यमहः स्मृतम् । तस्यान्ते प्रलयः प्रोक्तो ब्रह्मन् नैमित्तिको बुधैः॥४६.
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च विनाशिनः । तथा विनाशमायान्ति महर्लोकश्च तिष्ठति॥४६.
तद्वासिनोऽपि तापेन जनलोकं प्रयान्ति वै । एकार्णवे च त्रैलोक्ये ब्रह्मा स्वपिति वै निशि॥४६.
तत्प्रमाणैव सा रात्रिस्तदन्ते सृज्यते पुनः । एवन्तु ब्रह्मणो वर्षमेकं वर्षशतन्तु तत्॥४६.
शतं हि तस्य वर्षाणां परमित्यभिधीयते । पञ्चाशद्भिस्तथा वर्षैः परार्धमिति कीर्त्यते॥४६.
एवमस्य परार्धन्तु व्यतीतं द्विजसत्तम । यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः॥४६.
द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज । वाराह इति कल्पोऽयं प्रथमः परिकल्पितः॥४६.
एवंविधाः सृष्टयस्तु ब्रह्मणोऽव्यक्तजन्मनः । शर्वर्यन्ते प्रबुद्धस्य कल्पे कल्पे भवन्ति वै॥४८.
प्राकारपरिखाहीनां पुरं खर्वटमुच्यते । शाखानगरकञ्चान्यन्मन्त्रिसामन्तभुक्तिमत्॥४९.
तथा शूद्रजनप्रायाः स्वसमृद्धिकृषीबलाः । क्षेत्रोपभोग्यभूमध्ये वसतिर्ग्रामसंज्ञिता॥४९.
अन्यस्मान्नगरादेर्या कार्यमुद्दिश्य मानवैः । क्रियते वसतिः सा वै विज्ञेया वसतिर्नरैः॥४९.
दुष्टप्रायो विना क्षेत्रैः परभूमिचरो बली । ग्राम एव द्रमीसंज्ञो राजवल्लभसंश्रयः॥४९.
शकटारूढभाण्डैश्च गोपालैर्विपणं विना । गोसमूहैस्तथा घोषो यत्रेच्छाभूमिकेतनः॥४९.
त एवं नगरादींस्तु कृत्वा वासार्थमात्मनः । निकेतनानि द्वन्द्वानां चक्रुरावसथाय वै॥४९.
गृहाकारा यथा पूर्वं तेषामासन्नहीरुहाः । तथा संस्मृत्य तत्सर्वं चक्रुर्वेश्मानि ताः प्रजाः॥४९.
वृक्षस्यैवङ्गताः शाखास्तथैवञ्चापरी गताः । नताश्चैवोन्नताश्चैव तद्वच्छाखाः प्रचक्रिरे॥४९.
याः शाखाः कल्पवृक्षाणां पूर्वमासन् द्विजोत्तम । ता एव शाखा गेहानां शालात्वं तेन तासु तत्॥४९.
कृत्वा द्वन्द्वोपघातन्ते वार्तोपायमचिन्तयन् । नष्टेषु मधुना सार्धं कल्पवृक्षेष्वशेषतः॥४९.
विषादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः । ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतामुखे तदा॥४९.
वार्तास्वसाधिता ह्यन्या वृष्टिस्तासां निकामतः । तासां वृष्ट्युदकानीह यानि निम्नगतानि वै॥४९.
वृष्ट्यावरुद्धैरभवत् स्त्रोतः खातानि निम्नगाः । ये पुरस्तादपां स्तोका आपन्नाः पृथिवीतले॥४९.
ततो भूमेश्च संयोगादोषध्यस्तास्तदा भवन् । अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश॥४९.
ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे । प्रादुर्भावस्तु त्रेतायामाद्योऽयमौषधस्य तु॥४९.
तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे मुने । रागलोभौ समासाद्य प्रजाश्चाकस्मिकौ तदा॥४९.
ततस्ताः पर्यग्वह्णन्त नदीक्षेत्राणि पर्वतान् । वृक्षगुल्मौषधीश्चैवमात्मन्यायाद्यथाबलम्॥४९.