अत्पन्नः स जगद्योनिरगुणोऽपि रजोगुणम् । भुञ्जन् प्रवर्तते सर्गे ब्रह्मत्वं समुपाश्रितः॥४६.
ब्रह्मत्वे स प्रजाः सृष्ट्वा ततः सत्त्वातिरेकवान् । विष्णुत्वमेत्य धर्मेण कुरुते परिपालनम्॥४६.
ततस्तमोगुणोद्रिक्तो रुद्रत्वे चाखिलं जगत् । उपसंहृत्य वै शेते त्रैलोक्यं त्रिगुणोऽगुणः॥४६.
यथा प्राग्व्यापकः क्षेत्री पालको लावकस्तथा । यथा स संज्ञामायाति ब्रह्मविष्ण्वीशकारिणीम्॥४६.
ब्रह्मत्वे सृजते लोकान् रुद्रत्वे संहरत्यपि । विष्णुत्वे चाप्युदासीनस्तिस्त्रोऽवस्थाः स्वयम्भुवः॥४६.
रजो ब्रह्मा तमो रुद्रो विष्णुः सत्त्वं जगत्पतिः । एत एव त्रयो देवा एत एव त्रयो गुणाः॥४६.
अन्योन्यमिथुना ह्येते अन्योन्याश्रयिणस्तथा । क्षणं वियोगो नह्येषां न त्यजन्ति परस्परम्॥४६.
एवं ब्रह्मा जगत्पूर्वो देवदेवश्चतुर्मुखः । रजोगुणं समाश्रित्य स्त्रष्ट्टत्वे स व्यवस्थितः॥४६.
हिरण्यगर्भो देवादिरनादिरुपचारतः । भूपद्मकर्णिकासंस्थो ब्रह्माग्रे समजायत॥४६.
तस्य वर्षशतं त्वेकं परमायुर्महात्मनः । ब्रह्म्येणैव हि मानेन तस्य संख्यां निबोध मे॥४६.
निमेषैर्दशभिः काष्ठा तथा पञ्चभिरुच्यते । कलास्त्रिंशच्च वै काष्ठा मुहूर्तं त्रिंशत्ताः कलाः॥४६.
अहोरात्रं मुहूर्तानां नृणां त्रिंशत्तु वै स्मृतम् । अहोरात्रैश्च त्रिंशद्भिः पक्षौ द्वौ मास उच्यते॥४६.
तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे । तद्देवानामहोरात्रं दिनं तत्रोत्तरायणम्॥४६.
दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिस्तद्विभागं शृणुष्व मे॥४६.
चत्वारि तु सहस्राणि वर्षाणां कृतमुच्यते । शतानि सन्ध्या चत्वारि सन्ध्यांशश्च तथाविधः॥४६.
त्रेता त्रीणि सहस्राणि दिव्याब्दानां शतत्रयम् । तत्सन्ध्या तत्समा चैव सन्ध्यांशश्च तथाविधः॥४६.
द्वापरं द्वे सहस्रे तु वर्षाणां द्वे शते तथा । तस्य सन्ध्या समाख्याता द्वे शताब्दे तदंशकः॥४६.
कलिः सहस्रं दिव्यानामब्दानां द्विजसत्तम । सन्ध्या सन्ध्यांशकश्चैव शतकौ समुदाहृतौ॥४६.
एषा द्वाधशसाहस्त्री युगाख्या कविभिः कृता । एतत् सहस्रगुणितमो ब्राह्म्यमुदाहृतम्॥४६.
ब्रह्मणो दिवसे ब्रह्मन् मनवः स्युश्चतुर्दश । भवन्ति भागशस्तेषां सहस्रं तद्विभज्यते॥४६.
देवाः सप्तर्षयः सेन्द्रा मनुस्तत्सूनवो नृपाः । मनुना सह सृज्यन्ते संह्रियन्ते च पूर्ववत्॥४६.
चतुर्युगानां संख्याता साधिका ह्ये कसप्ततिः । मन्वन्तरं तस्य संख्यां मानुषाब्दैर्निबोध मे॥४६.
त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विज । सत्पषष्टिस्तथान्यानि नियुतानि च संख्यया॥४६.
विंशतिश्च सहस्राणि कालोऽयं साधिकं विना । एतन्मन्वन्तरं प्रोक्तं दिव्यैर्वर्षैर्निबोध मे॥४६.
अष्टौ वर्षसहस्राणि दिव्यया संख्यया युतम् । द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु॥४६.
चतुर्दशगुणो ह्येष कालो ब्रह्म्यमहः स्मृतम् । तस्यान्ते प्रलयः प्रोक्तो ब्रह्मन् नैमित्तिको बुधैः॥४६.
भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च विनाशिनः । तथा विनाशमायान्ति महर्लोकश्च तिष्ठति॥४६.
तद्वासिनोऽपि तापेन जनलोकं प्रयान्ति वै । एकार्णवे च त्रैलोक्ये ब्रह्मा स्वपिति वै निशि॥४६.
तत्प्रमाणैव सा रात्रिस्तदन्ते सृज्यते पुनः । एवन्तु ब्रह्मणो वर्षमेकं वर्षशतन्तु तत्॥४६.
शतं हि तस्य वर्षाणां परमित्यभिधीयते । पञ्चाशद्भिस्तथा वर्षैः परार्धमिति कीर्त्यते॥४६.