तेन दोषेण ता नेशुरौषध्यो मिषतां द्विज । अग्रसद् भूर्युगपत्तास्तदौषध्यो महामते॥४९.
पुनस्तासु प्रणष्टासु विभ्रान्तास्ताः पुनः प्रजाः । ब्रह्माणं शरणं जग्मुः क्षुधार्ताः परमेष्ठिनम्॥४९.
स चापि तत्त्वतो ज्ञात्वा तदा ग्रस्तां वसुन्धराम् । वत्सं कृत्वा सुमेरुन्तु दुदोह भगवान् विभुः॥४९.
दुग्धेयं गौस्तदा तेन शस्यानि पृथिवीतले । जज्ञिरे तानि बीजानि ग्राम्यारण्यास्तु ताः पुनः॥४९.
ओषध्यः फलपाकान्ता गणाः सप्तदशा स्मृताः । व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः॥४९.
प्रियङ्गवो ह्युदाराश्च कोरदूषाः सचीनकाः । माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः॥४९.
आढकाश्चणकाश्चैव गणाः सप्तदश स्मृताः । इत्येता ओषधीनान्तु ग्राम्याणां जातयः पुरा॥४९.
ओषध्यो जज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश । व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः॥४९.
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः । श्यामाकास्त्वथ नीवारा यत्तिला सगवेधुकाः॥४९.
कुरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये । ग्राम्यारण्याः स्मृता ह्येता ओषध्यश्च चतुर्दश॥४९.
यदा प्रसृष्टा ओषध्यो न प्ररोहन्ति ताः पुनः । ततः स तासां वृद्ध्यर्थं वार्तोपायञ्चकार ह॥४९.
ब्रह्मा स्वयम्भूर्भगवान् हस्तसिद्धिञ्च कर्मजाम् । ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे॥४९.
संसिद्धायान्तु वार्तायां ततस्तासां स्वयं प्रभुः । मर्यादां स्थापयामास यथान्यायं यथागुणम्॥४९.
वर्णानामाश्रमाणाञ्च धर्मान् धर्मभृतांवर । लोकानां सर्ववर्णानां सम्यग्धर्मार्थपालिनाम्॥४९.
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम्॥४९.
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् । गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तताम्॥४९.
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् । स्मृतं तेषान्तु यत् स्थानं तदेव गुरुवासिनाम्॥४९.
सप्तर्षोणान्तु यत् स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् । योगिनाममृतं स्थानमिति वै स्थानकल्पना॥४९.
46(43) षट्चत्वारिंशोऽध्यायः क्रौष्टुकिरुवाच भगवंस्त्वण्डसम्भूतिर्यथावत् कथिता मम । ब्रह्माण्डे ब्रह्मणो जन्म तथा चोक्तं महात्मनः॥४६.
एतदिच्छाम्यहं श्रोतुं त्वत्तो भृगुकुलोद्भव । यदान सृष्टिर्भूतानामस्ति किन्नु न चास्ति वा । काले वै प्रलयस्यान्ते सर्वस्मिन्नुपसंहृते॥४६.
मार्कण्डेय उवाच यदा तु प्रकृतौ याति लयं विश्वमिदं जगत् । तदोच्यते प्राकृतोऽयं विद्वद्भिः प्रतिसञ्चरः॥४६.
स्वात्मन्यवस्थितेव्यक्ते विकारे प्रतिसंहृते । प्रकृतिः पुरुषश्चैव साधर्म्येणावतिष्ठतः॥४६.
तदा तमश्च सत्त्वञ्च समत्वेन व्यवस्थितौ । अनुद्रिक्तावनूनौ च तत्प्रोतौ च परस्परम्॥४६.
तिलेषु वा यथा तैलं घृतं पयसि वा स्थितम् । तथा तमसि सत्त्वे च रजोऽप्यनुसृतं स्थितम्॥४६.
उत्पत्तिर्ब्रह्मणो यावदायुषो द्विपरार्धिकम् । तावद्दिनं परेशस्य तत्समा संयमे निशा॥४६.
अहर्मुखे प्रबुद्धस्तु जगदादिरनादिमान् । सर्वहेतुरचिन्त्यात्मा परः कोऽप्यपरक्रियः॥४६.
प्रकृतिं पुरुषञ्चैव प्राविश्याशु जगत्पतिः । क्षोभयामास योगेन परेण परमेश्वरः॥४६.
यथा मदो नवस्त्रीणां यथा वा माधवानिलः । अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान्॥४६.
प्रधाने क्षोभ्यमाने तु स देवो ब्रह्मसंज्ञितः । समुत्पन्नोऽण्डकोषस्थो यथा ते कथितं मया॥४६.
स एव क्षोभकः पूर्वं स क्षोभ्यः प्रकृतेः पतिः । स सङ्कोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः॥४६.