सरित्सरः समुद्रांश्च सेवन्ते पर्वतानपि । तास्तदा ह्यल्पशीतोष्णा युगे तस्मिंश्चरन्ति वै॥४९.
तृप्तिं स्वाभाविकीं प्राप्ता विषयेषु महामते । न तासां प्रतिघातोऽस्ति न द्वेषो नापि मत्सरः॥४९.
पर्वतोदधिसेविन्यो ह्यनिकेतास्तु सर्वशः । ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः॥४९.
पिशाचोरगरक्षांसि तथा मत्सरिणो जनाः । पशवः पक्षिणश्चैव नक्रा मत्स्याः सरीसृपाः॥४९.
अवारका ह्यण्डजा वा ते ह्यधर्मप्रसूतयः । न मूलफलपुष्पाणि नार्तवा वत्सराणि च॥४९.
सर्वकालसुखः कालो नात्यर्थं घर्मशीतता । कालेन गच्छता तेषां चित्रा सिद्धिरजायत॥४९.
ततश्च तेषां पूर्वाह्ने मध्याह्ने च वितृप्तता । पुनस्तथेच्छतां तृप्तिरनायासेन साभवत्॥४९.
इच्छताञ्च तथायासो मनसः समजायत । अपां सौक्ष्म्यं ततस्तासां सिद्धिर्नानारसोल्लसा॥४९.
समजायत चैवान्या सर्वकामप्रदायिनी । असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः॥४९.
तासां विना तु संकल्पं जायन्ते मिथुनाः प्रजाः । समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम्॥४९.
अनिच्छाद्वेषसंयुक्ता वर्तन्ते तु परस्परम् । तुल्यरूपायुषः सर्वा अधमोत्तमतां विना॥४९.
तत्वारि तु सहस्राणि वर्षाणां मानुषाणि तु । आयुः प्रमाणं जीवन्ति न च क्लेशाद्विपत्तयः॥४९.
क्वचित् क्वचित् पुनः साभूत् क्षितिर्भाग्येन सर्वशः । कालेन गच्छता नाशमुपयान्ति यथा प्रजाः॥४९.
तथा ताः क्रमशो नाशं जग्मुः सर्वत्र सिद्धयः । तासु सर्वासु नष्टासु नभसः प्रच्युता नराः॥४९.
प्रायशः कल्पवृक्षास्ते संभूता गृहसंज्ञिताः । सर्वे प्रत्युपभोगाश्च तासं तेभ्यः प्रजायते॥४९.
वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे तदा । ततः कालेन वै रागस्तासामाकस्मिकोऽभवत्॥४९.
मासि मास्यार्तवोत्पत्त्या गर्भोत्पत्तिः पुनः पुनः । रागोत्पत्त्या ततस्तासां वृक्षास्ते गृहसंज्ञिताः॥४९.
ब्रह्मन्नन्वपरेषान्तु पेतुः शाखा महीरुहाम् । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च॥४९.
तेष्वेव जायते तेषां गन्धवर्णरसान्वितम् । अमाक्षिकं माहवीर्यं पुटके पुटके मधु॥४९.
तेन वा वर्तयन्ति स्म मुखे त्रेयायुगस्य वै । ततः कालान्तरेणैव पुनर्लोभान्वितास्तु ताः॥४९.
वृक्षांस्ताः पर्यगृह्णन्त ममत्वाविष्टचेतसः । नेशुस्तेनापचारेण तेऽपि तासां महीरुहाः॥४९.
ततो द्वन्द्वान्यजायन्ते शीतोष्णक्षुन्मुखानि वै । तास्तद्द्वन्द्वोपघातार्थं चक्रुः पूर्वं पुराणि तु॥४९.
मरुधन्वषु दुर्गेषु पर्वतेषु दरीषु च । संश्रयन्ति च दुर्गाणि वार्क्षं पार्वतमौदकम्॥४९.
कृत्रिमञ्च तथा दुर्गं मित्वा मित्वात्मनो।ङ्गुलैः । मानार्थानि प्रमाणानि तास्तु पूर्वं प्रचक्रिरे॥४९.
परमाणुः परं सूक्ष्मं त्रषरेणुर्महीरजः । बालाग्रञ्चैव लिक्षां च यूकां चाथ यवोदरम्॥४९.
क्रमादष्टगुणान्याहुर्यवानष्टौ तथाङ्गुलम् । षडङ्गुलं पदं तच्च वितस्तिर्द्विगुणं स्मृतम्॥४९.
द्वे वितस्ती तथा हस्तो ब्राह्म्यतीर्थादिवेष्टनः । चतुर्हस्तं धनुर्दण्डो नाडिकार्युगमेव च॥४९.
धनुषां द्वे सहस्रे तु गव्यूतिस्तच्चतुर्गुणम् । प्रोक्तञ्च योजवनं प्राज्ञैः संख्यानार्थमिदं परम्॥४९.
चतुर्णामथ दुर्गाणां स्वसमुत्थानि त्रीणि तु । चतुर्थं कृत्रिमं दुर्गं ते चक्रुर्यत्नतस्तु वै॥४९.
पुरञ्च खेटकञ्चैव तद्वद् द्रोणीमुखं द्विज । शाखानगरकञ्चापि तथा कर्वटकं द्रमी॥४९.