; मार्कण्डेय उवाच ब्रह्मणः सृजतः पूर्वं सत्याभिध्यायिनस्तथा । मिथुनानां सहस्रन्तु मुखात् सोऽथासृजन्मुने॥४९.
जातास्ते ह्यु पपद्यन्ते सत्त्वोद्रिक्ताः स्वतेजसः । सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज ह॥४९.
ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यमर्षिणः । ससर्जान्यते सहस्रन्तु द्वन्द्वानामूरुतः पुनः॥४९.
रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः । पद्भ्यां सहस्रमन्यच्च मिथुनानां ससर्ज ह॥४९.
उद्रिक्तास्तमसा सर्वे निः श्रीका ह्यल्पचेतसः । ततः संहर्षमाणास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः॥४९.
अन्योन्यहृर्च्छ्याविष्टा मैथुनायोपचक्रमुः । ततः प्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः॥४९.
मासि मास्यार्तवं यत् तु न तदासीत्तु योषिताम् । तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः॥४९.
आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ताः सकृत् । ततः प्रभृति कल्पेऽस्मिन् मिथुनानां हि सम्भवः॥४९.
ध्यानेन मनसा तासां प्रजानां जायते सकृत् । शब्दादिर्विषयः शुद्धः प्रत्येकं पञ्चलक्षणः॥४९.
इत्येषा मानुषी सृष्टिर्या पूर्वं वै प्रजापतेः । तस्यान्ववायसम्भूता यैरिदं पूरितं जगत्॥४९.
सरित्सरः समुद्रांश्च सेवन्ते पर्वतानपि । तास्तदा ह्यल्पशीतोष्णा युगे तस्मिंश्चरन्ति वै॥४९.
तृप्तिं स्वाभाविकीं प्राप्ता विषयेषु महामते । न तासां प्रतिघातोऽस्ति न द्वेषो नापि मत्सरः॥४९.
पर्वतोदधिसेविन्यो ह्यनिकेतास्तु सर्वशः । ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः॥४९.
पिशाचोरगरक्षांसि तथा मत्सरिणो जनाः । पशवः पक्षिणश्चैव नक्रा मत्स्याः सरीसृपाः॥४९.
अवारका ह्यण्डजा वा ते ह्यधर्मप्रसूतयः । न मूलफलपुष्पाणि नार्तवा वत्सराणि च॥४९.
सर्वकालसुखः कालो नात्यर्थं घर्मशीतता । कालेन गच्छता तेषां चित्रा सिद्धिरजायत॥४९.
ततश्च तेषां पूर्वाह्ने मध्याह्ने च वितृप्तता । पुनस्तथेच्छतां तृप्तिरनायासेन साभवत्॥४९.
इच्छताञ्च तथायासो मनसः समजायत । अपां सौक्ष्म्यं ततस्तासां सिद्धिर्नानारसोल्लसा॥४९.
समजायत चैवान्या सर्वकामप्रदायिनी । असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः॥४९.
तासां विना तु संकल्पं जायन्ते मिथुनाः प्रजाः । समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम्॥४९.
अनिच्छाद्वेषसंयुक्ता वर्तन्ते तु परस्परम् । तुल्यरूपायुषः सर्वा अधमोत्तमतां विना॥४९.
तत्वारि तु सहस्राणि वर्षाणां मानुषाणि तु । आयुः प्रमाणं जीवन्ति न च क्लेशाद्विपत्तयः॥४९.
क्वचित् क्वचित् पुनः साभूत् क्षितिर्भाग्येन सर्वशः । कालेन गच्छता नाशमुपयान्ति यथा प्रजाः॥४९.
तथा ताः क्रमशो नाशं जग्मुः सर्वत्र सिद्धयः । तासु सर्वासु नष्टासु नभसः प्रच्युता नराः॥४९.
प्रायशः कल्पवृक्षास्ते संभूता गृहसंज्ञिताः । सर्वे प्रत्युपभोगाश्च तासं तेभ्यः प्रजायते॥४९.
वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे तदा । ततः कालेन वै रागस्तासामाकस्मिकोऽभवत्॥४९.
मासि मास्यार्तवोत्पत्त्या गर्भोत्पत्तिः पुनः पुनः । रागोत्पत्त्या ततस्तासां वृक्षास्ते गृहसंज्ञिताः॥४९.
ब्रह्मन्नन्वपरेषान्तु पेतुः शाखा महीरुहाम् । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च॥४९.
तेष्वेव जायते तेषां गन्धवर्णरसान्वितम् । अमाक्षिकं माहवीर्यं पुटके पुटके मधु॥४९.
तेन वा वर्तयन्ति स्म मुखे त्रेयायुगस्य वै । ततः कालान्तरेणैव पुनर्लोभान्वितास्तु ताः॥४९.